सामग्री पर जाएँ

कार्त्तिकेयः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कार्त्तिकेयः, पुं, (कृत्तिकानामपत्यम् । “स्त्रीभ्योढक्” । ४ । १ । १२० । इति ढक् ।) शिवपुत्त्रः । यथा, -- “या बभूव रहःक्रीडा पार्व्वतीशिवयोः पुरा । दृष्टस्य च सुरैः शम्भोर्व्वीर्य्यं भूमौ पपात ह ॥ भूमिस्तदक्षिपत् वह्नौ वह्निश्च शरकानने । तत्त्वं लब्धःकृत्तिकाभिरघुना गच्छ साम्प्रतम् ॥ तवाभिषेकं विष्णुश्च करिष्यति सुरैः सह । हनिष्यसि तारकाख्यं सर्व्वशस्त्रं लभिष्यसि ॥ पुत्त्रस्त्वं विश्वसंहर्तुस्त्वां गोप्तुमक्षमा इमाः । नाग्निं गोप्तुं यथाशक्तः शुष्कवृक्षः स्वकोटरे” ॥ इति ब्रह्मतैवर्त्ते गणेशखण्डम् ॥ * ॥ स एव कल्पभेदे अग्निपुत्त्रः । यथा, -- “कुमारश्चाभवत् तत्र तरुणार्कसमद्युतिः । वह्नितेजोभवः श्रीमान् गङ्गाकुक्षिपरिच्युतः ॥ तं कुमारं ततो जातं दृष्ट्वा सेन्द्रा मरुद्गणाः । तदा क्षीरप्रदानार्थं कृत्तिकाः संन्ययोजयन् ॥ ताः क्षीरं तस्य देवस्य समयेन ददुस्तदा । स्यादस्माकमयं पुत्त्रः ख्यातो नाम्नेति राघव ! ॥ अन्योन्यं पिबतस्तासां तनयस्य मुखानि षट् । समभूवन् महाबाहो ! षण्मुखस्तेन विश्रुतः ॥ ततस्ता देवता ऊचुः कार्त्तिकेय इति प्रभुः । पुत्त्रोऽयं जगति ख्यातो भविष्यति न संशयः” ॥ इति वाल्मीकीयरामायणम् ॥ * ॥ तत्पर्य्यायः महा- सेनः २ शरजन्मा ३ षडाननः ४ पार्व्वतीनन्दनः ५ स्कन्दः ६ सेनानीः ७ अग्निभूः ८ गुहः ९ बाहु लेयः १० तारकजित् ११ विशाखः १२ शिखिवा- हनः १३ षाण्मातुरः १४ शक्तिधरः १५ कुमारः १६ क्रौञ्चदारणः १७ । इत्यमरः । १ । १ । ४१-४३ ॥ आग्नेयः १८ दीप्तकीर्त्तिः १९ अनमेयः २० मयूरकेतुः २१ धर्म्मात्मा २२ भूतेशः २३ महिषार्दनः २४ कामजित् २५ कामदः २६ कान्तः २७ सत्यवाक् २८ भुवनेश्वरः २९ शिशुः ३० शीघ्रः ३१ शुचिः ३२ चण्डः ३३ दीप्तवर्णः ३४ शुभाननः ३५ अमोघः ३६ अनघः ३७ रौद्रः ३८ प्रियः ३९ चन्द्राननः ४३ दीप्तशक्तिः ४१ प्रशान्तात्मा ४२ भद्रकृत् ४३ कूटमोहनः ४४ षष्ठीप्रियः ४५ पवित्रः ४६ मातृ वत्सलः ४७ कन्याहर्त्ता ४८ विभक्तः ४९ स्वाहेयः ५० रेवतीसुतः ५१ प्रभुः ५२ नेता ५३ नैगमेयः ५४ सुदुश्चरः ५५ सुव्रतः ५६ ललितः ५७ बाल- क्रीडनप्रियः ५८ खचारी ५९ ब्रह्मचारी ६० शूरः ६१ शरवणोद्भवः ६२ विश्वामित्रप्रियः ६३ देव- सेनाप्रियः ६४ वासुदेवप्रियः ६५ प्रियकः । ६६ इति वनपर्व्व ॥ गाङ्गः ६७ स्वामी ६८ द्वादशलो- चनः ६९ । इतिजटाधरः ॥ सिद्धसेनः ७० शम्भु- तनयः ७१ देवसेनापतिः ७२ बालचर्य्यः ७३ कृक- वाकुध्वजः ७४ महाबाहुः ७५ युद्धरङ्गः ७६ शिखिध्वजः ७७ । इति शब्दरत्नावली ॥ (पाव- कात्मजः ७८ । रुद्रसूनुः ७९ । षट्शिराः ८० । दितिजान्तकः ८१ । इति महाभारतम् ॥ * ॥) अस्य ध्यानम् । यथा । “कार्त्तिकेयं महाभागं मयूरोपरिसंस्थितम् । तप्तकाञ्चनवर्णाभं शक्तिहस्तं वरप्रदम् ॥ द्विभुजं शत्रुहन्तारं नानालङ्कारभूषितम् । प्रसन्नवदनं देवं सर्व्वसेनासमावृतम्” ॥ इति कार्त्तिकेयपूजापद्धतिः ॥

"https://sa.wiktionary.org/w/index.php?title=कार्त्तिकेयः&oldid=126396" इत्यस्माद् प्रतिप्राप्तम्