सामग्री पर जाएँ

कार्पासधेनु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कार्पासधेनुः, स्त्री, (दानार्थं कल्पिता कार्पासवस्त्र- निर्म्मिता धेनुः ।) दानार्थकार्पासादिनिर्म्मित- धेनुः । यथा । होतोवाच । “अथातः संप्रवक्ष्यामि धेनुं कार्पासिकीं नृप ! । यत्प्रदानान्नरा यान्ति ऐन्द्रलोकमनुत्तमम् ॥ विषुवे त्वयने पुण्ये युगादिग्रहणे तथा । ग्रहपीडासु चोग्रासु दुःस्वप्नारिष्टदर्शने ॥ पुण्ये ह्यायतने राजन् शुचिदेशे गवां गणे । गोमयेनोपलिप्तायां दर्भानास्तीर्य्य तै तिलान् ॥ तन्मध्ये स्थापयेत् धेनुं वस्त्रमाल्यानुलेपनैः । नैवेद्यधूपदीपाद्यैः पूजयेच्च विमत्सरः ॥ उत्तमा चतुर्भिर्भारैस्तदर्द्धेन तु मध्यमा । भारेण चाधमा प्रोक्ता वित्तशाठ्यं विवर्जयेत् ॥ चतुर्थांशेन कृत्वा वै वत्सन्तु परिकल्पयेत् । कर्त्तव्या रुक्मशृङ्गैस्तु रजतक्षुरसंयुता ॥ नानाफलमया दन्ता रत्नगर्भसमन्विता । इत्येवं सर्व्वसंपूर्णं कृत्वा श्रद्धासमन्वितः ॥ आवाहयेत्तां कार्पासधेनुं मन्त्रैर्द्विजातये । दद्यादथ दर्भपाणिः प्रयतः श्रद्धयान्वितः ॥ पूर्ब्बोक्तस्तु विधिः कार्य्यो दानमन्त्रपुरःरः” ॥ पूर्ब्बोक्तविधिः लवणधेनूक्तविधिः । “यथा देवगणः सर्व्वस्त्वया हीनो न वर्त्तते । तथा मामुद्धरेर्द्देवि ! पाहि संसारसागरात्” ॥ इत्यादिवराहपुराणे श्वेतोपाख्याने कार्पासधेनु- माहात्म्यम् ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कार्पासधेनु¦ स्त्री स्त्री कार्पासरचिता धेनुः। दानार्थं कल्पि-तायां कार्पासवस्त्रादिनिर्म्मितायां धेनौ। तद्विधानं हेमा॰दा॰ ख॰ वराहपुराणे यथा
“अतःपरं प्रवक्ष्यामि धेनुं कार्पासिकीं शुभाम्। विश्वस्यगुह्यगुप्त्यर्थं ब्रह्मणा चांशुकङ्कृतम्। कार्पासमूलन्तच्चापितेनासावुत्तमा स्मृता। सा च कार्पासभारेण धेनुः श्रेष्ठाप्रकीर्त्तिता। मध्यमा च तदर्द्धेन कन्यसी (कनिष्ठा) च तद-र्द्धतः। पूर्ववद्वस्त्रधान्यञ्च हिरण्यञ्च तथैव च। वत्सकन्तु चतु-र्थांशैर्दानमन्त्रोऽभिधीयते”। पूर्व्ववदिति वराहपुराणोक्तति-लधेनुवदित्यर्थः।
“हेमकुन्देन्दुदेवेशि! क्षीरार्णवसमुद्भवे!। सोमप्रिये! सुधेन्वाख्ये! सौरभेयि! नमोऽस्तु ते। दत्तेयमिन्दुनाथाय शशाङ्कायामृताय च। अत्रिनेत्र-प्रजाताय सोमराजाय वै नमः”।
“यस्त्वेवं परया भक्त्याब्राह्मणाय प्रयच्छति। स याति सोमलोकन्तु सोमेनसह मोदते। न रोगी न ज्वरी कुष्ठी कुले तस्य प्रजा-यते। पुत्रदारसमोपेतो जीवेच्च शरदां शतम्”। वस्त्रधेन्वादयोप्यत्र

"https://sa.wiktionary.org/w/index.php?title=कार्पासधेनु&oldid=273229" इत्यस्माद् प्रतिप्राप्तम्