सामग्री पर जाएँ

कार्म्मणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कार्म्मणम्, क्ली, (कर्म्मैव इति । कर्म्मन् + “तद्युक्तत्वात् कर्म्मणोऽण्” । ५ । ४ । २६ । इति अण् । कर्म्मणे हितमिति अण् वा ।) मूलकर्म्म । इत्यमरः । ३ । २ । ४ ॥ ओषध्यादिमूलेन यत् त्रासनोच्चाटन- स्तम्भनवशीकरणादिकर्म्म तत् । इति भरतः ॥ (यथा माघे । १० । ३७ । “चाटु चाकृतकसम्रममासां कार्म्मणत्वमगमन् रमणेषु” ॥ तथा च, काशीखण्डे ४५ । ९ । “काचित्कार्म्मणतत्त्वज्ञा काचित्मौक्तिकगुम्फिका” ॥) मन्त्रतन्त्रादियोजनम् । (कर्म्म साध्यत्वेन अस्त्यस्य इति अण् ।) कर्म्मठे त्रि । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=कार्म्मणम्&oldid=126418" इत्यस्माद् प्रतिप्राप्तम्