सामग्री पर जाएँ

कार्य्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कार्य्यम्, क्ली, (क्रियते यत् तत् । कृ + “विभाषा कृ वृषोः” । ३ । १ । १२० । इति क्यवभावे “ऋहलो- र्ण्यत्” । ३ । १ । १२५ । इति ण्यत् । ततो वृद्धिः ।) क्रियते यत् । इति व्याकरणम् । काज इति भाषा । (“कार्य्यन्तु तद्यस्याभिनिर्वृत्तिरभिसन्धाय प्रवर्त्तते कर्त्ता” । इति चरके विमानस्थाने । ८ अध्यायः ॥ तथा मनुः । ९ । २९९ । “आरभेत ततः कार्य्यं सञ्चिन्त्य गुरुलाघवम्” ॥ कर्त्तव्यम् । यथा तत्रैव । ३ । ८० । “आशासते कुटुम्बिभ्यस्तेभ्यः कार्य्यं विजानता” ॥) तत्प्रति कारणम् त्रिविधम् । समवायिकारणम् १ यथा घटकार्य्यं प्रति कपालम् । असमवायिकार- णम् २ यथा घटकार्य्यं प्रति कपालसंयोगादि । निमित्तकारणम् ३ यथा घटं प्रति दण्डचक्रादि । इति तर्कशास्त्रम् ॥ हेतुः । प्रयोजनम् । इति मेदिनी ॥ ऋणादिविवादः यथा, -- “यस्मात् कार्य्यसमारम्भश्चिरात्तेन विनिश्चितः । तस्मान्न लभते कालमभियुक्तश्च कालभाक्” ॥ इति व्यवहारतत्त्वे कात्यायनः ॥ (तथा च मनुः । ८ । ४३ । “नोत्पादयेत् स्वयं कार्य्यं राजा नाप्यस्य पूरुषः” ॥) अपूर्ब्बम् । यथा, -- “विधिप्रत्ययस्य कार्य्ये शक्तिरिति मीमांसकाः” ॥ व्याकरणमते आदेशप्रत्ययागमाः । इति दुर्गा- दासः ॥ (त्रि, करणीयम् । कर्त्तव्यम् । यथा मनुः । २ । २४८ । “सहपिण्डक्रियायान्तु कृतायामस्य धर्म्मतः । अनयैवावृता कार्य्यं पिण्डनिर्व्वपनं सुतैः” ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कार्य्य¦ त्रि॰ कृ--कर्म्मणि ण्यत्।

१ कृतिसाध्ये

२ कर्त्तव्ये।
“तस्मात् शास्त्रं प्रमाणन्ते कार्याकार्य्यव्यवस्थितौ” गीता।
“नास्य कार्य्योऽग्निसंस्कारो न च कार्य्योदक-क्रिया” मनुः।
“शब्दानां कार्य्ये कार्य्यान्विते वाशक्तिरिति” मीमांसकाः।

३ उत्पाद्ये जन्ये
“व्यापारो-भावना सैवोत्पादना सैव च क्रिया। कृञोऽकर्मतापत्तेर्नहि यत्नोऽर्थ इष्यते” हर्य्युक्तेः कृञोभावनारूपव्यापारा-र्थकत्वात् तत्साध्ये
“यदि रसः कार्य्यः स्यात् विभावादि-कारणकः स्याद्” सा॰ द॰। गुरुमते यागादिकृति-साध्ये

४ अपूर्ब्बे। यथा चापूर्ब्बस्यैव कार्य्यत्वं तथाऽपूर्वशब्दे

२४

८ पृ॰ दर्शितम्।

५ प्रयोजने

६ उद्देश्ये तदि-च्छयैव कर्मसु प्रवृत्तेस्तस्य तथात्थम्
“उपसर्पति कार्य्यार्थीकृतार्थी नोपसर्पति” हितो॰। अष्टादशानां विवाद-पदानाञ्च उद्देश्यत्वादेव तथात्वम्।
“यस्मात्कार्य्यसमारम्भश्चिरात्तेन विनिश्चितः” व्य॰ त॰ कात्या॰स्मृतिः। उप्रचारात्

७ हेतौ च मेदि॰। व्याकरणमते

८ आदिश्यमाने वर्णादौ।
“कार्य्यमनुभवन् हि कार्य्यी नि-मित्ततया नाश्रोयते” महाभा॰
“भिषक् कर्त्ताथ करणंरसा, दोषास्तु कारणम्। कार्य्यमारीग्यमेवैकम्” सुश्रुतोक्ते

९ आरोग्ये च तत्र कर्तृत्वकरणत्वकारणत्व-कार्य्यत्वार्थेषु भिषगादिशब्दानां परिभाषितत्वात्। भावेण्यत्।

१० कर्मणि व्यापारे। ज्योतिषोक्ते

११ जन्मल-ग्नावधि दशमस्थाने।
“कार्य्याधीशः स्वगेहे बुधगुरुक-विभिः संयुतो वीक्षितो वा” जातकम् कार्य्यस्य व्यापार-रूपत्वात्तथात्वम्। ( कार्य्योत्पत्तिप्रकारोमतभेदेन चतुर्द्धा
“तत्र असतः सज्जा-यते इति सौगताः तैरभावादेव कार्य्याणामुत्पत्तेः स्वी-कारात्। सतोऽसज्जायते इति नैयायिकाः तैः प्रागुत्-पत्तेः घटादोनामसत्त्वस्य, मृदादिकारणस्य च तदा-सत्त्वस्य च स्वीकारेण असत उत्पत्तेः स्वीकारात्। सतो-विवर्त्तः कार्य्यं जगत् न वस्तु सदिति अद्वैतवादिनः। सतः सज्जायते इति साङ्ख्याः। विवृतञ्चैतदुत्पत्तिशब्दे

११

०८ पृ॰। यथा च{??}आलङादेः कार्य्यत्वेनापूर्व्ववाचकता तथा गुरुमतप्रदर्शने शब्दचि॰ उक्तं यथा(
“अथ खर्गकामोयजेतेत्यादौ इष्टसाधनत्वं काय्यत्वंवा यद्विधिः समभिव्याहृतक्रियान्वयी तदन्यान्वयी वा। तत्र गुरवः नाहत्य क्रिया कार्य्यतया लिङा बोधयितुं[Page1960-a+ 38] शक्यते स्वर्गकामनियोज्यान्वययोग्यताज्ञानविरहात् काम-नाविशिष्टस्यहि ममेदं कार्य्यमितिबोद्धृत्वं नियोज्यत्वं तत्-कामनायास्तद्बोधोपयोगे सति भवति। स च कामनानन्तरंकाम्यसाधनताबोधात् कार्य्यताबोधे सति स्यात् एवञ्च स्वर्ग-साधनताबोधे सति स्वर्गकामनियोज्यान्वययोग्यता। नच कालान्तरभाविस्वर्गे क्रिया साक्षात् परम्परया वासाधनमिति शब्दोबोधयितुमर्हति आशुविनाशित्वात् पर-म्पराघटकानुपस्थितेस्तृतीयप्रकाराभावात् अन्यथा तमादायसाधनत्वसम्भवात् कल्प्यमप्यपूर्व्वं न स्यात् इष्टसाधनताविधिपक्षे स्फुटैवानुपपत्तिः कार्य्यताविधिपक्षेऽपि अन्वयप्रकारतया साधनत्वं शाब्दमिति फलतो न विशेषः। अतः क्रियातोऽन्यत् खर्गसाधनतार्हं क्रियाकार्य्यतानिर्वा-हकं लिङाद्यर्थः”। व्याकृतञ्चै तत् मथुरानाथेन--(
“प्रसङ्गादपूर्वस्य विधिप्रत्ययवाच्यतां प्रभाकराभिमतांनिराकर्त्तुं विचाराङ्गसंशयप्रयोजिका विप्रतिपत्तिमादर्श-यति अथेत्यादिना यद्विधिः यद्विधिपदोपस्थापितार्थः। समभिव्याहृतक्रियान्वयीति एतद्विधिसमभिव्याहृतधातू-पस्थापितार्थान्वयी तदन्यान्वयी वेत्यर्थः तदन्वयित्वञ्च तद्वि-शेष्यकत्वावच्छिन्नशाब्दबोधप्रकारताश्रयत्वम्। अत्र विधि-कोटिः, विधेः कार्य्यत्वे शक्तिवादिनां नैयायिकानां, तन्नयेस्वर्गकामकृतिसाध्यो यागैत्थन्वयात्, निषेधकोटिस्तु कार्य-त्वरूपेणापूर्व्वे शक्तिवादिनां प्राभाकराणां, तन्नये स्वर्गका-मस्य यागविषयकं कार्य्यमिति यागविषयककार्यवान् स्वर्ग-काम इत्येव वान्वयबोधात् अत्र विषयकत्व जन्यत्वं तच्चयागकार्ययोः संसर्गः। कार्यत्वं कृतिसाध्यत्वम् अपूर्व्व-स्यापि क्वचिल्लक्षणादिना धातूपस्थापितत्वाच्च विधिकोटौसिद्धसाधनं निषेधकोटौ बाध इति तद्वारणाय एतद्विधिसमभिव्या हृतेति धातुविशेषणम्। तदन्यान्वयित्वञ्च तदन्वयि-भिन्नत्वं यथाश्रुतस्य विरोधिकोटित्वाभावात्। इष्टसाधन-त्वादिना प्रत्येकरूपेण पक्षत्वे द्वयोरसंग्रहः। इष्टसाधनता-विधिपक्षे इष्टसाधनत्वस्यापि विध्यर्थकार्येऽन्वयादतः पक्षेयद्विधिरिति। इत्थञ्च यद्विध्यर्थत्वेन द्वयोरनुगमान्नोक्तदेषःइष्टसाधनत्वं कार्यत्वं वेति तु स्वरूपकथनं न तु तद्रूपेणपक्षे प्रवेशः इष्टसाधनत्वमिति प्राभाकरैकदेशिमते। कार्यत्वं-कृतिसाध्यत्वम्। न च गुरुनये कार्यस्य धर्मिणो विध्यर्थतयाकृतिसाध्यत्वरूपस्य कार्यत्वस्य विधिप्रत्ययप्रवृत्तिनिमित्तत्व-मेव कुतो विध्यर्थत्वमिति वाच्यं कार्यस्य विध्यर्थत्वेऽपि अव-[Page1960-b+ 38] च्छेदकविधया कार्यत्वस्यापि विध्यर्थत्वात्। वस्तुतस्तु तन्मतेकृतिसाध्यत्वरूपं कार्यत्वं न शक्यतावच्छेदकम् अपि तुप्रागभावप्रतियोगित्वरूपं ध्वंसप्रतियोगित्वरूपं धर्मत्वरूपं वालाघवात्। कृतिसाध्यत्वन्तु पृथगेय शक्यं लिङ्सामान्यशक्यंवा पचेतेत्यादिलौकिकस्थलानुरोधात्। अन्वयबोधोऽपियागविषयकं कार्यं स्वर्गकामकृतिसाध्यमित्याकारकः, कृति-साध्ययागविषयककार्यवान् स्वर्गकाम इत्याकारकोवेतियथाश्रुतएव साधुः। पक्षतावच्छेदकावच्छेदेन विधिकोटिसिद्धेरुद्देश्यतया बलवदनिष्टाननुबन्धित्वस्य प्रकृत्यर्थेऽन्वय-मादाय नांशतः सिद्धसाधनं न वा कृतिसाध्यत्वेष्टसाधन-त्वयोरन्यतरत्रांशतः साध्यसिद्धिमादायार्थान्तरत्वम्। प्रव-र्त्तकज्ञानप्रकारीभूतत्वेन विध्यर्थो विशेषणीयः, तेन वर्त्त-मानत्वादेः कालस्य संस्यायाश्च तादृशविधिप्रतिपाद्यत्वेऽपिन तत्र विधिकोटावंशतो बाधः। न चेष्टसाधनत्वत्वादौबिध्यर्थ तावच्छेदकेऽशतो बाधः, प्रवर्त्तकज्ञानप्रकारीभूत-त्वस्य प्रवृत्तिविशेष्यांशे प्रवर्त्तकज्ञानप्रकारत्वरूपत्वात्। यद्वा संख्याकालातिरिक्तत्वेन विध्यर्थोऽपि विशेषणीयः। विधिशक्यत्वरूपस्य विध्यर्थत्वस्य पक्षतावच्छेदकत्वादिष्टसा-धनत्वत्वादौ नांशतोबाधः। कृतिसाध्यत्वस्य पृथक् शक्यतयानैतदसंग्रहः निषेधसिद्धिस्तु पक्षतावच्छेदकसामानाधिक-रण्येन उद्देश्या नातोबलदनिष्टाननुबन्धित्वेऽशतो बाधः। प्रवर्त्तकज्ञानप्रकारीभूतत्वमात्रेण पक्षतायाम् ओदनकामःपचेदित्यादिविध्यर्थे ओदनसाधनत्वपाकमात्रविषयककृति-साध्यत्वादौ विधिकोटावंशतो बाध इति। स्वर्गकामो यजे-तेत्यादिस्थलीय तत्तद्विध्यर्थत्वेन पक्षतालाभाय स्वर्गकामोयजेतेत्यादाविति विधिविशेषणमिति भावः। नव्यास्तुविज्ञातविधितत्त्वार्थस्तु तदन्वयिनं पृच्छति अथेति न तुविप्रतिपत्तिपरोऽयं ग्रन्थःगुरुणा समं विवादे तु कार्य्यत्वंविधिप्रत्ययशक्यतावच्छेदकं नवेति विप्रतिपत्तिरूहनीयाविधिकोटिः परेषाम्। नच कार्यस्य विधिप्रत्ययशक्यत्वेऽपितस्य प्रकृत्यर्थयागादावभेदान्वयेऽपि नैयायिकानां विवक्षि-तार्थसिद्ध्याऽर्थान्वरप्रसङ्ग इति वाच्यं धात्वर्थप्रत्ययार्थयो-रभदान्वयबोधस्याव्युत्पन्नतया तादृशबोधासम्मवात्। अन्य-था विप्रतिपत्तावपि यागनिष्ठकृतिसाध्यत्वस्य निरूपकतास-म्बन्धेन विध्यर्थे कृतावन्वयादपि नैयायिकानां विवक्षितार्थ-सिद्ध्याऽर्थान्तरप्रसङ्गस्य दुर्वारत्वादिति प्राहुरिति दिक्। अत्र गुरव इति अत्र विप्रतिपत्तौ प्रश्ने वा। नाहत्येतिआहत्य--साक्षात् अपूर्वकार्य्यत्वानुपपत्तिज्ञानद्वारा पश्चात्त[Page1961-a+ 38] बोध्यतएवेति भावः। क्रिया--यागादिः, कार्यतया स्वर्गकामकृतिसाध्यतया। नचैवम् अनुपपत्तिज्ञानोत्तरकालिकबोधमादाय विधौ सिद्धसाधनं निषेधे च बाध इति वाच्यंतदन्वयित्वस्य शाब्दत्वघटितत्वादेव सिद्धसाधनादिनिरासात्अनुपपत्तिज्ञानोत्तरकालिकबोधस्यैव औपादानिकबोधत्वेनशाब्दत्वविरहात्। औपादानिकत्वञ्च प्रत्यक्षत्वादिवदनुभवत्वव्याप्योधर्मविशेषः तदवच्छिन्नं प्रति च श्रौतानुपपत्तिज्ञानसचिवः शब्दएव पुनरनुसन्धीयमानोहेतुः। अतएवा-नुपपत्तिज्ञानसचिवः शब्दएव पञ्चमं प्रमाणमिति परसिद्धान्तइति भावः। स्वर्गकामनियोज्येति स्वर्गकामोयोविधिवाक्य-नियोज्यस्तदीयकृतिसाध्यत्वान्वयबोधप्रयोजकीभूतस्य ज्ञा-नस्य विरहादित्यर्थः। वक्ष्यमाणयुक्त्या यागे स्वर्गकामकृतिसाध्यत्वान्वयबोधे यागनिष्ठेष्टसाधनताज्ञानस्य हेतुत्वेनग्रथमं तद्विरहादिति भावः। प्रयोजकज्ञानविरहमेवो-पपादयति कामनाविशिष्टस्य हीति ममेदं कार्यमिति याग-विशेष्यकस्वर्गकामकृतिसाध्यत्वप्रकारकमित्यर्थः बोद्धृत्वं शाब्दबोधोपयोगित्वं तच्च कारणतावच्छेदकसाधारणं तेनवक्ष्यमाणक्रमेण कामनाया अपि तादृशशाब्दबोधोप-योगित्वं सङ्गच्छते कामनाविशिष्टस्य तादृशबोधोपयोगित्वंसमवायिकारणतया नियोज्यत्वं सकलप्रामाणिकसिद्धनि-योज्यव्यवहारविषयतावच्छेदकं तदिति स्वर्गकामनाविशिष्टस्यतादृशबोधोपयोगित्वमित्यर्थः। --तद्बोधोर्पयोगे तद्बोधोपयो-गित्वे सतीत्यर्थः। विशेष्यान्वयिनाऽन्वयिन एव विशेषणतयाविशेषणस्य तदुपयोगित्वं विना विशिष्टस्य तदुपयोगित्वासम्भवात्। न च रूपवति रस इत्यादिवत् कामना चोपल-क्षणमिति वाच्यं विशेषणत्वसम्भवे उपलक्षणत्वस्यान्याय्य-त्वादिति भावः। स चेति कामनायास्तादृशबोधोपयोगश्चे-त्यर्थः। कामनानन्तर कामनाप्रकारकज्ञानानन्तरं यःकाम्यसाधनताबोधः। कामनाघटितकाम्यसाधनताबोध इतियावत् तस्मात् कार्यताबोधे सति तज्जन्यो यदि कार्यता-बोधस्तदैव स्यात् कामनायाः कारणतावच्छेदकत्वात् न हिकामनैव साक्षात् कार्य्यताबोधजनिकाऽसम्भवात् इत्यर्थः। अतः काम्यसाधनताज्ञानं स्वर्गकामकृतिसाध्यत्वान्वयप्रयो-जकम् इति बोधः। स्वर्गकामेति स्वर्गकामोयो नियोज्यस्तदी-यकृतिसाध्यत्वान्वयबोधप्रयोजकं ज्ञानमित्यर्यः। नन्धेवं प्रथमंवेदाद्यागे स्वर्गसाधनताज्ञाने सति तदनन्तरं तत्र स्वर्ग-व{??}मकृतिसाध्यता बोधो भविष्यति किं कार्यत्वरूपेण विधेरकाशक्त्येत्यत आह नचेति क्रिया--यागादिः। साक्षादिति[Page1961-b+ 38] अव्यवहितपूर्व्वत्वसम्बन्धेन कार्याधिकरणीभूतक्षणनिष्ठा-त्यन्ताभावप्रतियोगितानवच्छेदकान्यथासिद्ध्यनिरूपकधर्म्मव-त्त्वं साक्षात् साधनत्वं, तादृशधर्मावच्छिन्नजनकत्वे सतिकार्य्यनियतपूर्ववर्त्तितावच्छेदकान्यथासिद्ध्यनिरूपकधर्म्मव-त्त्वञ्च परम्परासाधनत्वमिति भावः। साक्षात्साधनत्वस्या-बोधने हेतुमाहाश्विति यागादेरिच्छाविशेषरूपतया तृती-यक्षणवृत्तिब्धंसप्रतियोगित्वात् इत्यर्थः। परम्परासाधनत्व-स्याबोधने हेतुमाह परम्परेति अव्यवहितपूर्व्वत्वसम्बन्धेनस्वर्गविशेषाधिकरणीभूतक्षणनिष्ठात्यन्ताभावप्रतियोगितानव-च्छेदकान्यथासिद्ध्यनिरूपकधर्मावच्छिन्नजनकत्वे सतिस्वर्गविशेषनियतपूर्ववर्त्तितावच्छेदकान्यथासिद्ध्यनिरूपकधर्म-वत्त्वरूपपरम्परासाधनत्वघटकस्यानुपस्थितेरित्यर्थः। नचा-पूर्वघटितर्विशिष्टपरम्परासाधनत्वस्यैव विध्यर्थतया ततएव विशिष्टोपस्थितिसम्भवात् किमपूर्वस्य पृथगुपस्थित्याइति वाच्यं परम्परासाधनत्वान्वयबोधे परम्पराघटकफलपर्यन्तस्थायिव्यापारोपधायकत्वस्यान्वयप्रयोजकरूपत्वेनयोम्यतात्वात् प्रथमन्तज्ज्ञानं विना तदन्वयबोधासम्भवा-दिति भावः। नन्वेतदुभयविलक्षणमेव साधनत्वं बोधयिष्यतीत्यत आह तृतीयेति अन्यथा--तृतीयप्रकारसत्त्वे। साधनत्वसम्भवादिति अपूर्व्वं विनापि यागस्य स्वर्गसाधनत्वसम्भवादिति भावः। कल्प्यमिति तव नयेऽप्यपूर्व्वकल्पनान स्यादित्यर्थः आशुविनाशिनो यागस्य कालान्तरभाविस्वर्गसाधनत्वान्यथानुपपत्त्यैव त्वयाप्यऽपूर्वकल्पनादिति भावः। नन्वेषं प्रथमं परम्परासाधनत्वरूषेण परम्परासाधन-त्वान्वयासम्भवेऽपि सामान्यतः स्वर्गसाधनत्वरूपेणान्वयःस्यादित्यतआह इष्टसाधनताविधिप्रक्ष इति। सामा-न्यत इष्टसाधनत्वस्य बिध्यर्थत्वपक्षे इत्यर्थः। अनुपपत्तेःसाक्षात्परम्परौदासीन्येन फलसाधनत्वान्वयेऽपि फलप-र्य्यन्तस्थायित्वतादृशव्यापारोपधायकत्वान्यतरत्वस्य योग्य-तात्वेन तज्ज्ञानं विना सामान्यतोऽपि साधनत्वान्वयासम्भवात् इति भावः। अत्रैवानुपदं ननु सजातीय इतिन च साक्षात् परम्परासाधनत्वोभयसाधारणं खर्गसाध-नत्वमनुगतमेव दुर्वचमिति वाच्यं खर्गत्वावच्छिन्नवि-जातीयस्वर्गनियतपूर्ववर्त्तितावच्छेदकान्यथासिद्ध्यनिरूपकधर्म्मवत्त्वस्यैव तत्त्वात्। नचैवमव्यवधानस्याप्रवेशात् स्वतो-व्यापारतो वा स्वर्गाव्यवहितपूर्व्वक्षणमसतोऽपि नियतपूर्ब्बकारणत्वापत्तिरिति वाच्यं अन्यथासिद्ध्यनिरूपकल्पविशेषणेनैव तद्वारणात् विजातीयस्वर्गनियतपूर्ब्बवर्त्तिता[Page1962-a+ 38] वच्छेदकत्वन्तु यावत्योविजातीयस्वर्गव्यक्तयः प्रत्येकं तत्-पूर्ब्बक्षणवृत्तिनियतत्वं विजातीयस्वर्गोतपत्त्यधिकरणनि-ष्ठस्वावच्छिन्नोत्तरत्वसम्बन्धावच्छिन्नाभावप्रतियोगितावच्छे-दकान्यत्वमिति यावत् एवमग्रेऽपि सर्व्वत्र बोध्यम्। कार्य्यत्वं कारणत्वञ्चातिरिक्तपदार्थ इत्यभिप्रायेणेदमित्यपिकश्चित्। ननु भवन्मतेऽपि बिधिप्रत्ययात् कार्य्यत्वरूपेणापूर्व्वावगमेऽपि तस्य स्वर्गसाधनत्वं नावगतं तथाच तावन्मात्रज्ञानात् कथं प्रवृत्त्यर्थमुत्तरकालं परम्प-रया स्वर्गसाधनत्वावगमः परम्परासाधनत्वस्यापूर्व्व-निष्ठसाधनताघटितत्वात्। न च कार्य्यवत् साक्षात् साध-नत्वस्यापि विध्यर्थतया तस्य च समानपदोपात्ततयाकार्य्य एवान्वयादपूर्व्वस्य स्वर्गसाधनत्वावगम इति वाच्यंतथापि कार्य्यमात्रस्य विध्यर्थत्वपक्षेऽप्रतीकारादित्यत आहकार्य्यताविधिपक्ष इति। कार्य्यत्वमात्रस्य विधिप्रवृत्तिनिमित्तत्वपक्षे इत्यर्थः मात्रपदादिष्टसाधनत्वमात्रस्य व्यव-च्छेदः तेन संख्यादेर्विध्यर्थत्वेऽपि न क्षतिः। कृतिसाध्यत्वस्यपृथक्शक्यत्वपक्षे कार्य्य मात्रस्यविधिशक्यत्वपक्षेऽपौत्यर्थः। मात्रपदादिष्टसाधनत्वव्यवच्छेदः। अन्वयप्रकारतयेतिकृतिसाध्यत्वान्वयप्रयोजकरूपतयेत्यर्थः। साधनत्वं पदानु-पस्थितमपि स्वर्गसाधनत्वं घटेन जलमाहरेत्यादौ अप-दार्थस्यापि च्छिद्रेतरत्वस्य भानवदिति भावः। यद्यपिअपूर्ब्बे कृतिसाध्यत्वान्वयबोधे स्वर्गसाधनत्वस्यान्वयप्रयो-जकरूपतया योग्यतात्वे शाब्दबोधात् पूर्ब्बमपूर्व्वेतज्ज्ञा-नमसम्भवि अपूर्व्वस्य शाब्दबोधात् पूर्व्वमज्ञानात्, तथापिपरनये बोधनीयपदार्थे बोध्यताज्ञानं न कारणं बोध-नीयपदार्थस्यापूर्व्वत्वात् किन्तु पदार्थतावच्छेदकाव-च्छिन्ने क्वचित्तस्य ज्ञानं तच्च प्रकृतेऽपि सम्भवति कार्यत्वरूपेण घटादावेव जलाहरणरूपकार्य्यसाधनताज्ञानसत्त्वादिति निगर्वः। स्वयमुपसंहरति अत इति स्वर्ग-साधनतार्हमिति साक्षात्स्वर्गसाधनत्वस्यान्वययोग्य-मित्यर्थः। क्रियाकार्यतानिर्व्वाहकमिति कार्य्योपस्थितिरिष्टसाधनताज्ञानं ततः कृतिरिति प्रणाल्या क्रियायाः कृतिसाध्यतानिर्वाहकत्वमित्यर्थः लिङाद्यर्थ इति आदिपदात्त-व्यादिपरिग्रहः”। ( शब्दचिन्तामणौ स्थानान्तरे गुरुमते वैदिकलिङादेःकार्यत्वेनापूर्व्ववाचकता शङ्कापूर्ब्बकं दर्शिता यथा। (
“नन्वपूर्वे व्युत्पत्तिविरहः तथा हि प्रसिद्धार्थे स्वर्ग-पदसमभिव्याहारान्यथानुपपत्त्योपस्थिते शक्तिर्ग्रहीतव्या[Page1962-b+ 38] न च शाब्दानुभवात् पूर्व्वमपूर्व्वमुप्रस्थितं मानाभावात्अपूर्व्वत्वव्याघातादवाच्यत्वापाताच्च। न च लिङादिनातदुपस्थितिः व्यूत्पत्त्यनन्तरं तत्प्रवृत्तावन्योन्याश्रयात्। न चकार्य्यत्वेनोपलक्षिते तत्र शक्तिराहः उपलक्षणं हि स्मा-रणमनुमापनं वा अगृहीते सम्ब वाग्रहात् अशक्यमिति?मैवम् कार्येधर्मिणिकार्यत्वेन श क्तग्रहात् कार्यत्वविशिष्ट-ञ्चोपस्थितमेव ततोन्विताभिधानदशायां यागविषयकं कार्य-मित्यनुभवः स्वर्गकामायोग्यतया धटादिकं तिरस्कृत्य क्रियाभिन्ने योग्यतावशाद्यागविषयकापूर्वे पर्यवस्यति, नत्वपूर्व-त्वेन शक्तिग्रहो न वाऽपूर्व्वं कार्यमित्यनुभवः भवति चसामान्यतः सम्बन्धबुद्धिः सहकारिवशाद्विशेषबुद्ध्युपायःयथातवैव कर्तृमात्रसम्बन्धग्रहात् कर्तृविशेषसिद्धिः। ननुकार्यत्वेनापि किं घटादौ शक्तिग्रहः उतापूर्वे उभयत्र वा?नाद्यः, अन्यप्रतिपत्तावन्यशक्तिग्रहानुपयोगात्। नान्त्यौ,प्रागनुपस्थितेरिति चेत्? न येनहि रूपेण शब्देनानुभवोजन्यते तेन रूपेण शक्तिग्रहः पदार्थस्मरणञ्च शब्दानुभव-हेतुः। नहि प्रमेयत्वेन शक्तिग्रहः पदार्थस्मरणञ्च घट-त्वेन शाब्दानुभवहेतुः। एवञ्च घटादावेव कार्ये शक्तोलिङिति शक्तिग्रहः ततः कार्यमिति स्मरणं ततो योग्य-तादिवशात् प्रचरद्द्रव्यगुणकर्माणि कार्याणि विहाय यागविषयकं कार्यमित्यनुभवो भवन्नपूर्वमालम्बते योग्यत्वाच्चतस्य स्थायित्वलाभः। अतएव वाक्यार्थानुभवमात्रविषयत्वा-त्तदपूर्व्वम्। न च स्मृतानामाकाङ्क्षादिवशादन्वयबोधःपदेन क्रियते, नचापूर्व्वं स्मृतिगोचर इति वाच्यं? शक्ति-ग्रहपदार्थस्मरणशाब्दानुभवानां समानप्रकारकतामात्रेणहेतुहेतुमद्भावावधारणात् लाघवादावश्यकत्वाच्च। न चक्वचित् सहचारमात्रेणान्वयप्रतियोगिन एवोपस्थितिस्तथा,गौरवात् गोपदादपूर्वगवाननुभवप्रसङ्गाच्च, विशिष्टवैशिष्ट्यबोधे सर्व्वत्र तथैव, अन्यथा पर्व्वतीयवह्निर्व्यापकतया नावगतइति कथं तदन्वयोऽनुमितौ। ननु सामान्यलक्षणया प्रत्या-सत्त्या सर्व्वाएव व्यक्तयो व्याप्तिग्रहे शक्तिग्रहे च विषयीभवन्ति कथमन्यथा पर्व्वतीयधूमव्याप्त्यग्रहे तस्म दनुमितः?इति चेत् न येन रूपेण व्याप्तिग्रहस्तेन रूपेण व्याप्यत्वेनवा पक्षधर्मताग्रहोऽनुमितौ कारणमस्तु किन्तया। अपि चसा यद्यस्ति ममापि, नास्ति चेत्तवापि। किञ्च तव दर्शनेनास्तीति सुतरामपूर्व्ववाच्यता कार्यत्वेन हि रूपेणा-पूर्वस्यापि शक्तिग्रहविषयत्वं पदार्थस्मृतिविषयत्वञ्च। नचैवमपूर्वत्वक्षतिः यागविषयकत्वादेर्विशेषस्य कार्ये लिङंविनानु-[Page1963-a+ 38] पस्थितेः यथा पर्व्वतोयत्वभानं वह्नौ, नानुमितिं बिना-ननु यदि कार्ये क्रियासाधारणे लिङ् शक्तिः क्रिया चा-योग्येति योग्यापूर्वलाभः तदा नित्यनिषेधापूर्व्वयोर-लाभः न हि तत्रायोग्यतया क्रिया त्यक्तुं शक्यते फला-श्रवणात् कल्पनायाञ्च वीजाभावात् नचैकत्र निर्णीतःशास्त्रार्थः परत्रापि तथैवेति न्यायात्तत्राप्यपूर्व्वमेव लि-ङाद्यर्थ इति युक्तं नह्यपूर्व्वत्वेन शक्तिग्रहः किन्तु कार्यत्व-विशिष्टे धर्मिणि, क्रिया च तथा भवत्येव न च कार्येणसमं क्रियान्वयानुपपत्त्याऽपूर्वे पर्यवसानमभेदस्याप्यन्वयत्वा-दिति मैवम् न हि लोक पचेतेत्यादौ कार्ये धर्मिणि शक्तिःकल्पिता किन्त्वनन्यलभ्यकृतिरूपे कार्यत्वमात्रे। धर्मिणःपाकादेर्धातोरेवोपस्थितिसम्भवात् क्रियाकायतान्वयस्यान्विताभिधानलभ्यत्वात् तथाच यर्मिणि शक्तिर्वेदेकल्पनीया साच क्रियानिरासेनैव, न हि क्रियायाः कार्यत्वान्वययोग्य-त्वेन धर्मिणि शक्तिः कल्पयितुं शक्यते तस्मादयोग्यतयाक्रियानिरासानन्तरं तदतिरिक्त एव शक्तिकल्पनं न हिक्रियातिरिक्तकार्यात् कार्यमात्रं लघु ततः क्रियापिशक्यैवेति वाच्यं यतो न ब्रूमः क्रियातिरिक्तकार्यत्वेनशक्तिः किन्त्वयोग्यतया निरस्तायां क्रियायां धर्मिणि शक्ति-कल्पनसमये यत्क्रियातिरिक्तं तत्र शक्तिः न तु शक्तिग्रहेक्रियातिरिक्तत्वप्रबेशः न हि यत्प्रयुक्तानुपपत्त्या यत् कल्पनंतदेब तस्य विषयः एवञ्च कार्यत्वेनापि तदतिरिक्त एवशक्तिकल्पना। नित्यनिषेधयोरपि तदेवोपासनाद्यन्वययोग्यंलिङाऽभिधीयते न तु कार्यत्वमात्रे धर्मिणि बाधकाभावात्लक्षणाप्रसङ्गाच्च। घटादिस्तु लिङशक्तिग्रहेण तिरस्क्रियतेन वा पुरस्क्रियते उभयथापि गौरवात् अन्विताभिधानदशायां त्वयोग्यतया तस्याप्रवेशः। विधिप्रत्ययस्य च तत्रा-प्रयोगः केबलस्य तस्यासाधुत्वात् धातुसभभिव्याहारे चतदर्थेनान्वयबोधजनननियमेन घटाद्यप्रतिपादकत्वात् अत-एवाप्रयोगादेवाप्रयोगोऽपूर्ब्बत्वं वा प्रयोगोपाधिरिति वद-न्ति। अयाप्रतिपाद्यमेव घटादिवृत्तितया न कार्यत्वं प्रवृ-त्तिनिमित्तं प्रतिपाद्यमात्रवृत्तेरेव तथात्वात् अन्यथा प्रमेय-त्वमेव तथास्त्विति चेत् न, यत्प्रकारिका हि प्रतिपत्तिःपदजन्या तदेव तत्र प्रवृत्तिनिमित्तं फलबलकल्प्यत्वाच्छक्तेःनतु प्रतिपाद्यमात्रवृत्तिः सास्नात्वादौ व्यभिचारात् न चप्रमेयत्वं तथा, तद्बोधस्याप्रवर्त्तकत्वात् अतएव लोके लिङ्लाक्षणिकी, क्रियाभिन्ने धर्मिणि वेदे शक्तिकल्पनात। न चलौकिकानामपूर्व्वे तात्पर्य्ये सम्भवति पूर्व्वं प्रमाणान्तरेणा[Page1963-b+ 38] प्रतीतेः। क्रियासाधारणशक्तावपि लोके लक्षणैव प्रचेतेत्यत्रहि पाककार्यतावगम्यते तत्र कार्यत्वे लिङस्तावपर्यं लाघ-वात् न धर्मिणि, क्रियाया धादलभ्यत्वात् तदाहुः
“तात्प-र्याद्धि वृत्तिर्न वृत्तेस्तात्पर्यमिति”। तृतीयायाः करणत्वैक-त्ववत् कार्यं कार्यत्वञ्च न स्वतन्त्रं शक्यं किन्तु विशिष्टं विशे-ष्याच्च विशेषणमन्यदेवेति कर्यत्वे लक्षणा न च कार्यत्व-विशिष्टधम्युपस्थितावपि धर्म्यंशमपहाय क्रियया कार्य्य-तान्वयोऽस्तु किं लक्षणयेति वाच्यं नहीतरधर्मिगतत्वेनोप-स्थितस्य धर्म्यन्तराकाङ्क्षास्ति अतः स्वतन्त्रकार्योप्रस्थितयेलक्षणा यथा
“पुरोद्वाशकपालेन तुषानुपबपति” इत्यत्र पुरो-डाशार्थतया तदन्वितत्वे नोपस्थितस्य कपालस्य नोपवापा-काङ्क्षेति स्वतन्त्रकपालोपस्थितयेऽधिष्ठाने लक्षणा। न चव्युत्पत्तिविरोधः न हि ल के क्रियाकार्यत्वेन शक्तिरव-धारिता येन विरोधी भवेत् किन्तु कार्यत्वमात्रे, क्रियायाधातुलभ्यत्वात्, न च धर्म्यन्तरे शक्तावपि तद्भङ्गः। तस्मात्प्रकृत्यर्थानितस्वार्थबोधकत्वं प्रत्ययानां गृहीतप्रत्ययार्घंवाऽपूर्व्वमपीति न विरोधः। चास्तु वा लोके लिङःक्रियाकार्यत्वे शक्तिः तथापि तद्भङ्ग विनैव नानार्थन्यायेनवेदे धर्म्यन्तरे शक्तिः तां विना स्वर्गकामान्वयासम्भवात्। ” व्याकृतञ्चेदं मयुरानाथेन यथा--(
“व्युत्पत्तिविरह इति विधेः शक्तिग्रहासम्भव इत्यर्थःसमभिव्याहारानुपपत्त्येति तदुप्रस्थापितस्य स्वर्गकामनावतोयागे कृतिसाध्यत्वान्वयानुपपत्त्येत्यर्थः। ग्रहोतव्येत्यग्रेणा-न्वयः। नन्वन्यथानुपपत्त्या जन्मान्तरीयसंस्कारादेव तदुपस्थि-तिः कल्पनीयेत्यतआह अपूर्ब्बत्वव्याघातादिति शाब्दबोधात्पूर्वं प्रमाणान्तराविषयत्वस्यैवापूर्वरूपत्वादिति भावः। ननुसन्नपि योगार्थोऽत्र त्यज्यते मण्डपपदवदित्यस्वरसादाहअवाच्यत्वेति। प्रकारान्तरेणापूर्व्वस्योपस्थितौ{??}द्वाच्यत्वंविनापि तद्द्वारा जनकत्वनिश्चयसम्भवादिति प्रावः। तत्-प्रवृत्तौ--लिङादिनाऽपूर्व्वोपस्थितौ। अपूर्ब्बत्वेनोपस्थितिःप्राक् नास्तोत्याशयेनाशङ्कते न चेति। --उपलक्षिते उप-स्थिते। स्मारणं लिडयदिना स्मारणम्। गूढाभिसन्धिः समा-धत्ते मैवमिति। कार्य्ये धर्म्मिणीति क र्{??}ताश्रये धर्म्मि-णीत्यर्थः। कार्य्यत्वविशिष्टञ्चेति घटादौ विशेषः यागविषयकंकार्य्यमिति स्वर्गसाधनमिति शेषः। स्वर्गकामेति स्वर्गसाधनत्वान्वयायोग्यतयेत्यर्थः। विशेषबुद्धुपाय इतिसामान्यरूपेण विशेषबुद्ध्युपाय इत्यर्थः। सम्बन्धग्रहात्कृत्सम्बन्धग्रहात् कर्त्तृविशेषेति पक्तेत्यादौ पाककर्कत्वादिना[Page1964-a+ 38] विशेषसिद्धिरित्यर्थः। अभिसन्धिमुद्घादयितुं शङ्कते नन्विति। अनुपस्थितेरिति अपूर्ब्धस्य प्रागनुपस्थितेरित्यर्थः। येनहीति शक्तिग्रहपदार्थस्मरणशाब्दानुभवानां समानप्रकारत्वेनैव कार्य्यकारणभावः न तु समानधिषयकत्वेनापिगौरवादित्यर्थः। ननु समानविषयकत्वेनैव कार्य्यकारण-भावो न तु समानप्रकारकत्वेनेत्यतआह नहीति। पदार्थ-स्मरणञ्च--प्रमेयत्त्वेन पदार्थस्मरणञ्च तथाच समान प्रकार-कत्वस्यावश्यकत्वात्तेनैव रूपेण हेतुत्वमिति भावः। स्मरणं-घटादेः स्मरणम्। ननु कार्य्यमात्रशक्त्या कथं स्वर्गपर्य्यन्त-स्थायिकार्य्यलाभः? इत्यत आह योग्यत्वाच्चेति यागविष-यककार्येस्वर्गसाधनत्वान्वये स्वर्गपर्यन्तस्थायित्वस्य योग्यतारूपत्वाच्चेत्यर्थः। अतएवेति यतएव प्रथमं न तज्ज्ञानमित्यर्थःअपूर्वम् अपूर्वर्त्वव्यवहारः। पदेन क्रियत इति नियम इतिशेषः। शक्तिग्रहेति तथा च तादृशनियमोऽसिद्ध इति भावः। नन्वाकाशादिपदस्थले ग्राह्यपदार्थोपस्थितेर्हेतुत्वस्य दृष्ट-त्वादत्रापि तथेत्यतआह नचेति। क्वचित्--आकाशादिपदे। तथा--शाब्दधीहेतुः। अपूर्वेति शक्तिग्रहाविषयीभूतेत्यर्थः। ननु बिशिष्टवैशिष्ट्यबोधे विशे षणतावच्छेदकप्रकारकविशे-षणज्ञानस्य हेतुतया यागविषयककार्य्यवान् स्वर्गकाम इतिविशिष्टवैशिष्ट्यबोधानुरोधादपूर्ब्बज्ञानमावश्यकमित्यतआहविशिष्टेति विशिष्टवैशिष्ट्यबोधेऽपि विशेषणतावच्छदकप्रका-रकज्ञानमेव हेतुर्नतु विशेषणविषयत्वम्यापि तत्र प्रवेशइत्यर्थः। अन्यया--विशषणविषयत्वस्यापि तत्र प्रवेशे। व्याप-कतयेति। ज्ञानेन न भात इत्यर्थः। तदन्वयः तद्विषयत्वम्। तस्मात्--तदीयपक्षधर्मताज्ञानात्। तेन रूपेणेति स्वमते,तन्मते व्याप्यतावच्छेदकप्रकारकपक्षधर्मताज्ञानस्यैवानुमितिहेतुत्वात्। व्याप्यत्वेन वेति महानसीयधूमे गृहीतेनधूमव्यापकवह्निसमानाधिकरणधूमत्वरूपेण वह्निमदन्या-पृत्तित्वरूपेण वा व्याप्यात्वेनेत्यर्थः। एतच्च न्यायनयेपरनये वह्निव्याप्योधूमः धूमवान् पर्व्वत इति ज्ञानादप्य-नुमित्युत्पत्तेः वह्निव्याप्यवान् पर्वत इति ज्ञानादप्यनुमि-त्युत्पत्तेश्चेति ध्येयम्। सा--सामान्यप्रत्यासत्तिः। सुतरामितिविवृणोति कार्यत्वेन हीति। क्रियासाधारणेन--क्रियासा-धारणधर्मप्रकारेण। अयोग्या--साक्षात्फलजननायोग्या। योग्येति साक्षात्फलजननयोग्येत्यर्थः। नित्यनिर्षेधेतिसन्ध्यामुपासीतेत्यत्र सन्ध्यावन्दनापूर्वस्य, न कलञ्जं भक्षये-दित्यत्र कलञ्जभक्षणाभावजन्यापूर्व्वस्य वेत्यर्थः। तथा चतवापसिद्धान्त इति भावः। अयोग्यतया--साक्षात्फल-[Page1964-b+ 38] जननायोग्यतया। फलाश्रवणात् इति नित्येनिषेध-स्थले च फलाश्रवणादित्यर्थः। कल्पनायाञ्चति फल-कल्पनायाञ्चेत्यर्थः। वीजाभावात् प्रमाणाभावात्। कार्येण समं--क्रियारूपकार्येण समम्। अभेदस्या-पीति यद्यपि निषेथस्थले कलञ्जभक्षणाभावस्य कार्य-त्वाभावेन कार्यत्वरूपेण लिङा न तद्बोधसम्भवस्तथापिअभावस्योत्पादविनाशशालित्वनयेऽभावस्यापि कार्यत्वसम्भव इत्यभिप्रायेणेदं धर्म्मत्वरूपकार्यत्वाभिप्रायेण वा। केचित्तु कार्यत्वं कृतिसाध्यत्वं तच्च योगक्षेमसाधारणमित्यभावस्यापि कार्यत्वसम्भव इत्याहुः। कृतिरूप इतिसाध्यत्वसंसर्ग इति भावः। अन्विताभिधानेतिशाब्द-बोधेत्यर्थः। धर्म्मिणि--कार्य्ये। कार्य्यत्वान्वयेति स्वर्गकामकृतिसाध्यत्वान्वयेत्यर्थः अयोग्यतया स्वर्गकामकृति साध्य-त्वान्वयायोग्यतया। एवमग्रेऽपि। तत्र शक्तिरिति तत्रशक्तिग्रह इत्यर्थः। यत्प्रयुक्तेति यन्निष्ठस्वर्गकामकृतिसाध्य-त्वान्वयानुपपत्त्येत्यर्थः। शक्तिकल्पनादिति वैदिकलिङ्-मात्रशक्तिकल्पनादित्यर्थः। उपासनादीति सन्ध्योपास-नादीत्यर्थः आदिपदान्निषेधविधिस्थले कलञ्जभक्षणा-द्यभावपरिग्रहः। लक्षणेति वैदिकलिङः कार्य्ये धर्म्मि-ण्येव शक्तिकल्पनादिति भावः। एतच्च लोकस्थले लौकिकलिङत्वं कार्य्यत्वशक्ततावच्छेदकमित्यभिप्रायेणान्थथातत्र लिङ्त्वस्य शक्ततावच्छेदकत्वे लक्षणाया असङ्गतेरितिध्येयम्। एतच्चापाततः तन्नयेऽपूर्ब्बस्य शक्तिग्रहाविषय-त्वेऽपि शाब्दबोधविषयत्ववत् क्रियाया अपि कार्य्यत्वरूपेणवैदिकलिङः शक्तिग्रहाविषयत्वेऽपि शाब्दबोधविषयत्वसम्भवात् न हि न्यायनयैव तन्मते ग्राह्यपदार्थशक्तिधीरपेक्षिता किन्तु पदार्थतावच्छेदकरूपेण यत्र कुत्र-चिद्धर्म्मिणि शक्तिग्रहादेव शाब्दबोधे योग्यव्यक्तेर्भानम्। किञ्चैवमपि निषेधस्थलेऽपूर्ब्बालाभः तत्र कलञ्जभक्षणा-भावस्यापि क्रियातिरिक्ततया कार्य्यत्वरूपेण लिङातस्यैव बोधसम्भवात्। वस्तुतस्तु प्रकृतिप्रत्ययार्थयोरभेदान्व-यस्याव्युत्पन्नतया लिङा क्रियादेर्न बोधसम्भवैत्येवतत्त्वम्। ननु घटादिलक्षणकार्य्यत्वस्य शक्त्यतावच्छेदकत्वेयजेतेत्यादौ कथमपूर्ब्बलाभः घटादिभिन्नकार्यत्वस्य शक्य-तावच्छेदकत्वेऽ पूर्ब्बस्यानुपस्थितत्वात् कुत्र कार्ये शक्ति-ग्रह इत्यतआह घटादिस्त्विति। उभयथापीति घटादिभि-न्नकार्यत्वस्य घटादिकार्यत्वस्य च शक्यतावच्छेदकत्वे इत्य-र्थः। किन्तु कार्यत्वमेव शक्यतावच्छेदकमिति भावः। ननु[Page1965-a+ 38] सामान्यतः कार्यत्वस्य शक्यतावच्छेदकत्वे यजेतेत्यादौघटा-देरपि शाब्दबोधे भानापत्तिरित्यत आहान्वितेति अयोग्य-तया--धात्वर्थान्वयायोग्यतया। नन्वेवं कार्यत्वेन घटादेरपिशक्यत्वात्तत्रापि लिङः कदाचित् प्रयोगः स्यादित्यतआहविधीति केवलस्य--धात्वसमभिव्याहृतस्य, तस्य--विधिप्रत्य-यस्य, अप्रयोगादेवेति असाधुत्वादेवेत्यर्थः। अप्रयोगः विधिप्रत्ययाद्घटादेरप्रयोगः। प्रयोगोपाधीति शक्तिप्रमाजन्यशाब्दबोधेऽभावसम्बन्धेन प्रतिबन्धकमित्यर्थः। तादृशबोधेऽ-पूर्ब्बत्वं कारणमिति पर्य्यवसितोऽर्थः। प्रतिपत्तिः शक्य-प्रतिपत्तिः। तदेव तत्रेति तद्वृत्ति तदेवेति योजना शक्य-वृत्ति तदेवेत्यर्यः तथा च तत्पदशक्यवृत्तित्वे सति तत्-पदजन्योपस्थितिप्रकारत्वं तत्पदप्रवृत्तिनिमित्तत्वमितिलक्षणं फलितम्। आकृतेरपि गोपदादिजन्यप्रतीतौगवाद्यंशे स्वसमवायिसमवेतत्वसम्बन्धेन प्रकारत्वात्तत्राति-व्याप्तिवारणाय सत्यन्तम्। आकृतिस्तु अवयवसंयोगविशे-षरूपा न गोपदशक्त्यवृत्तिः स्वसमवायिसमवेतत्वलक्षण-परम्परासम्बन्धस्य वृत्त्यनियामकत्वात्। वृत्त्यनियामकसम्बन्धेन तु न कोपि धर्म्मः कुत्रापि शक्यतावच्छेदकःपशुपदादेरपि लोमवल्लाङ्गूलादिसमवेतत्वादिकमेव शक्य-तावच्छेदकं न तु समवेतत्वसम्बन्धेन लोमवल्लाङ्गूलादिकम्। तदादिपदात् कदाचित् परम्परासम्बन्धेन कपाल-त्वादिप्रकारेण घटादिबोधस्तु लक्षणयैव, आकृतेरपिद्रव्यादिपदशक्यवृत्तित्वात्। तत्पदेति न चाकृतेरपिकालिकादिसम्बन्धेन शाक्यगवादिवृत्तित्वादतिव्याप्तिस्तद-वस्थेति वाच्यं तत्पदशक्तिविशेष्यतावच्छेदकतानियामकसम्बन्धेन तत्पदशक्तिमुख्यविशेष्यवृत्तित्वस्य विवक्षित-त्वात् मुख्येत्युपादानात् मूर्त्तादिपदे परिमाणत्वादेः,घटादिपदे आकृतिवृत्त्यवान्तरजातेः शक्यतावच्छेदकत्वव्यु-दासः। ज्ञानविषयशक्तवस्त्वादिपदे ज्ञानस्यापि शक्तिमुख्यविशेष्यतया ज्ञानत्वस्य शक्यमुख्यवृत्तित्वेऽपि न यथोक्तसम्बन्धेन तद्वृत्तित्वम्। नचाकाशादेरपि आकाशादिपदशक्यतावच्छेदकत्वापत्तिरिति वाच्यं नव्यमते घटत्वादे-र्घटादिपदशक्यतावच्छेदकत्ववदाकाशादेरप्याकाशादिपद-शक्यतावच्छेदकत्वे इष्टापत्तेः। सम्प्रदायमते चा-काशादिपदशक्तेर्विशेष्यांशे निर्विकल्पकरूपतया विशेष्य-तावच्छेदकतानियामकसम्बन्धाप्रसिद्ध्यैवातिव्याप्तिविरहात्,अवयवावयविवाचिदध्यादिपदे दध्यादेः शक्यतावच्छेद-कत्ववारणाय विशेष्यदलम्। उपस्थितिर्हि लक्षणाशक्ति-[Page1965-b+ 38] भ्रमाजन्यत्वेन विशेषणीया तेन लक्ष्यतावच्छेदके नातिप्रसङ्गः। न च समूहालम्बनमादायातिप्रसङ्ग इति वाच्यंयत्प्रकारताघटितधर्म्मावच्छेदेन तत्पदजन्यत्वं तत्त्वस्यविवक्षितत्वादिति निगर्वः। तत्पदशक्तिविशेष्यतावच्छे-दकत्वं तत्पदप्रवृत्ति{??}मित्तत्वं संस्थानञ्च गुरुनये, नव्यनैयायिकनये च सममिति न तत्रातिव्याप्तिरितितु ज्यायः। सास्नादौ सास्नासमवेतत्वादौ तथा--यथोक्तलक्षणाश्रयः। तद्बोधस्य तत्प्रकारकज्ञानस्य अप्रवर्त्तक-त्वात् शक्त्याऽजनकत्वात् घटादिपदस्येति शेषः। ननु लौकि-कलिङः कार्यत्वे शक्तिः वैदिकलिङः कार्ये धर्मिणि शक्ति-रित्यभ्युपगमे लौकिकलिङत्ववैदिकलिङत्वयोः शक्तताव-च्छेदकत्वे शक्ततावच्छेदकगौरवमित्यतआह अतएवेति शक्तता-वच्छेदकगौरवादेवेत्यर्थः। लाक्षणिकी--कार्यत्वे लाक्षणिकीवेदे--वेदस्थले। शक्तिकल्पनादिति लिङ्सामान्यस्यैव शक्ति-कल्पनादित्यर्थः। न च लिङ्मात्रस्य कार्यत्वे शक्तिः वेदे चकार्ये धर्मिणि लक्षणा इत्येव किं न स्यात् कार्यत्वत्वा-पेक्षया कार्यत्वत्वविशिष्टस्य कार्यत्वस्य गुरुत्वात् बिनिगम-काभावाच्चेति वाच्यं कृतिसाध्यत्वत्वरूपकार्यत्वत्वापेक्षयाप्रागभावप्रतियोगित्वादिरूपस्य धर्मत्वरूपस्य वा कार्य-त्वस्य लघुत्वादित्यभिप्रायः। वस्तुतस्तु लाघवाल्लिङ्मात्रस्यकृतावेय शक्तिः साध्यत्वं संसर्गः। वेदे च प्रागभाबवत्त्वादि-रूपकार्य्यत्वाश्रये धर्मिणि लक्षणाऽस्त्वेवेत्याशयः। ननुलोकस्थले कार्य्यत्वरूपेणापूर्व्वमेवाऽर्थोऽस्तु किं लक्षणयेत्यतआह नचेति पूर्ब्बमिति वेदे तु अनादिलिङ्प्रवादादेवाध्यापकानामपूर्ब्बावगमात्तत्र तात्पर्य्यसम्भव इति भावः। वस्तुतोऽपूर्ब्बं लोके बाधितं मानाभावादित्येव द्रष्टव्यम्। ननु लिङः शक्तिग्रहे क्रियाभिन्नधर्मिणोविषयत्वेऽपिकार्य्यत्वस्य शक्यतावच्छेदकतया क्रियायां शक्तिरस्त्येवतथा च लोकेऽपि पाकः कार्य्याभिन्न इत्यभेदान्वयबोधस्यशक्त्यैवोपपत्तौ किं लक्षणया इत्यतमाह क्रियासाधार-णेति। लक्षणैव कार्यत्वे लक्षणैव। पाककार्यतावगम्यते इत्या-धाराधेयभावसम्बन्धेन प्{??}कविशेष्यककृतिसाध्यत्वप्रकार-कान्वयबोधोजायते इत्यर्थः। अन्यथा प्रवृत्त्यनुपपत्तेस्तथाच प्रवर्त्तकज्ञानानुरोधाल्लक्षणेति भावः। इदञ्चाभ्युपगमवादे-नोक्तं वस्तुतोधात्वर्थप्रत्ययार्थयोरभेदान्वयबोधस्याव्युत्पन्नतया क्रियासाधारणशक्तावपि शक्त्यानोपपत्तिरन्यथा नि-त्यनिषेधस्थलेऽपि तथान्वयबोधसम्भवादपूर्वलोपापत्तेरितिध्येयम्। ननु लोके पचेतेत्यादौ लिङीलक्षणायां लिङ्-[Page1966-a+ 38] प्रदात् कार्यत्वरूपेण षाकोपस्थितिद्वारा पाकविशेष्यककार्यत्वप्रकारकान्वयबोधो जायतामिति वक्तुस्तात्पर्यमनुपपन्नंलिङोलक्षणया कार्यत्वमात्रोपस्थापकत्वादित्यतआह तत्रेतिकार्यत्वे कायत्वोपस्थितौ। तातपर्याद्धोति लोके लाघवात्केवलकार्यत्वोपस्थितौ लिङस्तात्पर्यात् केवलकार्यत्वएववृत्तिरित्यर्थः नतु वृत्तेरिति अन्यत्रेति शेषः इदमापाततःलौकिकतात्पयस्य पुमिच्छानियन्त्रितत्वात्तत्र लाघवस्याकिञ्चित्करत्वात्। वस्तुतस्तु तात्पर्यस्याप्याकाङ्क्षानुरोधेनलक्षणाया अभ्युपगम इत्येव तत्त्वम्। ननु तथापि यन्मतेटेटम्यले कृतिसाध्यत्वरूपकार्यत्वाश्रये लिङः शक्तिस्तन्मतेकृतिसाध्यत्वसपकार्यत्वस्यापि विशेषणविधया शक्यतयालोके शक्त्यैव कार्यत्वोपस्थितिसम्भवात् किं लक्षणया इत्यतआह तृतीयाया इति। न स्वतन्त्रं शक्यमिति धर्म्यंशेनिर्विकल्पकशक्त्यापत्तेरिति भावः। कार्यत्वे लक्षणेतिकृतिसाध्यत्वरूपकार्यत्वचिशिष्टशक्तादोनामपि तादृशकार्यत्वेलक्षणैव इत्यर्थः। गतत्वेन--विशेपणत्वेन। स्वतन्त्रेति इतराविशेषणतयेत्यर्थः। तुषानुपवपतीति पुरोडाशाय कपालंपुरोडाशकपालमिति चतुर्थीसमासे सतोति शेषः पुरोडा-शार्थतयेति पुरोडाशप्रयोजनकत्वरूपेणेत्यर्थः तदन्वित-त्वेनेति पुरोडाशप्रयोजनकरूपपुरोडाशपदार्थान्वितत्वेन,शाब्दानुभवविषयस्य कपालस्येत्यथः, नोपवापाकाङ्क्षा इतिएनज्व जिज्ञासायोग्य ताकाङ्क्षेति मते एकप्रयोजनकत्वेना-वगतस्य प्रयोजनान्तरे जिज्ञासाया असम्भवान्न कपालस्यकिं प्रयोजनमिति जिज्ञासा सम्भवतीति भावः। स्वतन्त्रकपा-लोपस्यितये इति पुरोडाशप्रयोजनकानन्वितत्वेन कपालशा-ब्दबुद्धये इचर्थः अधिष्ठानलक्षणेति पुरोडाशपदस्यपुरोडाशाधिष्ठाने मृण्मयपात्रं लक्षणेत्यर्थः। एवञ्च पुरो-डाशाधिष्ठानाभिन्नकपालेन तुषानुपवपतीत्येन्वयबोधः पुरो-डाशस्य कपालमिष्टि षष्ठीतत्पुरुषः, पुरोडाशञ्च तत्कपा-लञ्चेति कर्सधारयो वेति भावः। उपवापः स्फोटनंयद्यप्यत्र इतरविशेषणतया उपस्थितिनिबन्धनं न निरा-काङ्क्षत्वमपि तु प्रयोजनान्तरवत्त्वोपस्थितिनिबन्धनमेवेतिदृष्टान्तदार्ष्टान्तिकयोर्भहद्वैषम्यमेव तथापि निराकाङ्क्षत्वनिबन्धनलक्षणामात्रे दृष्टान्तः। एतच्चापाततः जिज्ञासा-योग्यताया आकाङ्क्षात्वाभावात् घटजनकेन दण्डेन गामभ्याजेत्यत्राप्येवंरूपेण निराकाङ्क्ष्यतयाऽन्वयबोधानुपपत्तेःकिञ्चावान्तरवाक्यार्थबोधपूर्वकमहावाक्यार्थबोधेऽस्त्वेवंरूपेणनिराकाङ्क्षत्वं तथापि खलेकपोतन्यायेग युगपत्तथान्वय-[Page1966-b+ 38] बोधे न काप्यनुपपत्तिः। वस्तुतस्तु वेदस्थले एकपयोजनकत्वविशिष्टस्य प्रयोजनान्तरे नान्वयः आनुपूर्वीमेदेन व्युत्पत्तिभेदात् वेदानुपूर्वीस्थले तथैव व्युत्पत्तेः सकलवैदिकैकवाक्यतया तथा निर्णीतत्वादित्यधिष्ठानलक्षणेत्येव तत्त्वम्। व्युत्पत्तिविरोध इति लोके लिङ्त्वावच्छेदेन क्रियानिष्ठकार्यता-बोधकत्वमवधारितं वेदे च कार्ये धार्मणि लिङ्शक्तौतद्भङ्ग इत्यर्थः। लोके इति लिङत्वावच्छेदेनेति शेषः। क्रियाकार्य्यत्वे शक्तिः क्रियाविशेष्यककार्य्यत्वानुभव-जनकना। कार्य्यत्वमात्रे इति शक्तिरवधारितेत्यनुष-ज्यते शक्तिरनुभवजनकता। न चेति वेदस्थले इति शेषः। धर्य्यन्तरे कार्य्ये धर्म्मिणि तद्भङ्ग इति क्रियानिष्ठकार्य्य-त्वस्यैव लिङा बोधनादिति भावः। ननु तथापि लोक-स्थले लिङः क्रियानिष्ठकार्य्यताबीधकतया प्रकृत्यर्थान्वितस्वार्थबोधकत्वं लिङ्त्वावच्छेदेन सिद्धं कार्य्ये धर्म्मिणिशक्तौ च तद्भङ्गः कार्ये धर्म्मिण्येव लिङर्थकार्यत्वान्वया-दित्यतआह तस्मादिति लोकस्थले लिङः क्रियान्वित्तकार्यताबोधकत्वात् इत्यर्थः। प्रत्ययानां गृहीतमिति लिङ्पत्यय-त्वावच्छेदेन गृहीतमित्यर्थः। न तु प्रकृत्यर्थान्विततया यावत्स्वार्थवोधकत्वप्तिति भावः। प्रत्ययाथश्च--लिङ्प्रत्ययार्थश्च। न विरोध इति अपूर्व्वरूपस्वार्थस्यैव प्रकृत्यर्यान्वितत्वादितिभावः। तुष्यतु दुर्जन इति न्यायेनाह अस्तु वेति। क्रि-याकार्यत्व इति क्रियाकृतिस्तस्याः कार्यत्वे तत्साध्यत्वेइत्यर्थः शक्ततावच्छेदकञ्च लिङ्त्वमेव वेदेऽपि अपूर्व्वनिष्ठ-कृतिसाध्यत्वावगमादिति भावः। नानार्थन्यायेनेति हर्यादिपदन्यायेनेत्यर्थः। यथाश्रुतेऽस्यापि नानार्थतया नानार्थतुल्यत्वाभिधानस्यासङ्गतत्वापत्तेः। वेदे--वेदस्थले धर्म्यन्तरेकार्ये धर्मिणि शक्ततावच्छेदकन्तु अत्रापि लिङ्त्वमेवेतिभावः। तथाच यथा हर्यादिपदस्थले एकमेव हारपदत्वा-दिकं शक्ततावच्छेदकं विष्णुत्वचन्द्रत्वादिमेदेन शक्यताव-च्छेदकञ्च नाना तर्थबैकमेव लिङ्त्वं शक्ततावच्छेदकं शक्य-तावच्छेदकञ्च कार्यत्वत्वं कार्यत्वञ्च द्वयमिति फलितोऽर्थः। न च लिङ्त्वावच्छदेन कार्य्ये शक्तो, लोकेऽप्यपूर्वलाभाप-त्तिरिति वाच्यं प्रागेव समाहि{??}त्वात् तत्रापूवस्य वाधित-त्वाच्चेति भावः। ”( मणिकृता तु एतन्मतं पूर्व्वपक्षीकृत्य दूपितम्। तच्चततएवावसेयम्। विस्तरभयान्नोक्तम्।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कार्य्य¦ mfn. (-र्य्यः-र्य्या-र्य्यं)
1. To be done.
2. What ought to be done, fit, right. n. (-र्य्यं)
1. Cause, origin.
2. Motive, object.
3. Effect, result of a cause.
4. Affair, business.
5. Law-suit, dispute.
6. The denouncement of a drama.
7. In grammar, an adjunct, either as an affix, augment or substitude. E. कृञ् to do, and ण्यत् aff.

"https://sa.wiktionary.org/w/index.php?title=कार्य्य&oldid=273600" इत्यस्माद् प्रतिप्राप्तम्