कार्य्यम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कार्य्यम्, क्ली, (क्रियते यत् तत् । कृ + “विभाषा कृ वृषोः” । ३ । १ । १२० । इति क्यवभावे “ऋहलो- र्ण्यत्” । ३ । १ । १२५ । इति ण्यत् । ततो वृद्धिः ।) क्रियते यत् । इति व्याकरणम् । काज इति भाषा । (“कार्य्यन्तु तद्यस्याभिनिर्वृत्तिरभिसन्धाय प्रवर्त्तते कर्त्ता” । इति चरके विमानस्थाने । ८ अध्यायः ॥ तथा मनुः । ९ । २९९ । “आरभेत ततः कार्य्यं सञ्चिन्त्य गुरुलाघवम्” ॥ कर्त्तव्यम् । यथा तत्रैव । ३ । ८० । “आशासते कुटुम्बिभ्यस्तेभ्यः कार्य्यं विजानता” ॥) तत्प्रति कारणम् त्रिविधम् । समवायिकारणम् १ यथा घटकार्य्यं प्रति कपालम् । असमवायिकार- णम् २ यथा घटकार्य्यं प्रति कपालसंयोगादि । निमित्तकारणम् ३ यथा घटं प्रति दण्डचक्रादि । इति तर्कशास्त्रम् ॥ हेतुः । प्रयोजनम् । इति मेदिनी ॥ ऋणादिविवादः यथा, -- “यस्मात् कार्य्यसमारम्भश्चिरात्तेन विनिश्चितः । तस्मान्न लभते कालमभियुक्तश्च कालभाक्” ॥ इति व्यवहारतत्त्वे कात्यायनः ॥ (तथा च मनुः । ८ । ४३ । “नोत्पादयेत् स्वयं कार्य्यं राजा नाप्यस्य पूरुषः” ॥) अपूर्ब्बम् । यथा, -- “विधिप्रत्ययस्य कार्य्ये शक्तिरिति मीमांसकाः” ॥ व्याकरणमते आदेशप्रत्ययागमाः । इति दुर्गा- दासः ॥ (त्रि, करणीयम् । कर्त्तव्यम् । यथा मनुः । २ । २४८ । “सहपिण्डक्रियायान्तु कृतायामस्य धर्म्मतः । अनयैवावृता कार्य्यं पिण्डनिर्व्वपनं सुतैः” ॥)
