कार्षापणः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कार्षापणः, पुं क्ली, (कर्षस्यायं “तस्येदम्” । ४ । ३ । १२० । इत्यण् । नित्यं पणः परिमाणे इत्यप् गोचर- सञ्चरेति घो वा कार्षस्य कार्षेण वा आपणः व्यवहारो यत्र । यद्वा कर्षस्येदं स्वार्थे वा अण् तेन आपण्यते । आ + पण कर्म्मणि घः ।) का- र्षिकः । षोडशपणः । इति मेदिनी ॥ रूप्यकर्ष- कृतव्यवहारद्रव्यम् । लोके तु तन्मूल्ये षोडश- पणसमुदाये कार्षापणस्योपचारेण प्रवृत्तिः । तथा हि शास्त्रीयो रजतमाषो द्विकृष्णलः । द्वे कृष्णले समधृते विज्ञेयो रूप्यमाषकः । इति मनुः ॥ आद्ये कृतयुगे रजतकृष्णलयोर्द्दशगण्डा मूल्य- मिति द्वात्रिंशता कृष्णलाभी रजतकर्षस्य षो- डशपणा एव मूल्यम् । पुराणशब्दश्चात्र कार्षिकं पुराणञ्च कार्षापण इति वोपालितः । इत्यमर- टीकायां भरतः ॥ (यथा, मनुः । ८ । १३६ । “कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः” ॥)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कार्षापणः [kārṣāpaṇḥ] णम् [ṇam], णम् (or पणकः) A coin or weight of different values; पुराकल्प एतदासीत् षोडश माषाः कार्षापणं Mbh. on P.I.2.64. कार्षापणं तु विज्ञेयस्ताम्रिकः कार्षिकः पणः Ms.9.136,336;9.282. (= कर्ष). न हि काकिन्यां नष्टायां तदन्वेषणं कार्षापणेन क्रियते ŚB. on MS.4.3.39. -णम् Money, gold and silver.
