कालकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालकः, पुं, (कालयतीति । कलत्कक्षेपे + “ण्वुल्तृचौ” ३ । १ । १३३ इति ण्वुल् ।) जतुकः । इत्यमरः । २ । ४ । ४९ ॥ जडुर इति भाषा ॥ (“वर्णे चा- नित्ये” । “रक्ते” । “कालाच्च” । ५ । ४ । ३१, ३३ इति कन् । कालकः पटः । कालिका शाटी । कालकं मुखं इति सिद्धान्तकौमुदी ॥) अलगर्द्द- सर्पः । इति शब्दरत्नावली ॥ (राक्षसविशेषः । यथा गोः रामायणे ३ । २९ । ३० । “दुर्ज्जयः कालकाख्यश्च परुषः कालिकामुखः” ॥)
