कालकूटः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालकूटः, पुं क्ली, (कालस्य मृत्योः कूटः छद्मदूत इव ।) स्थावरविषभेदः । इत्यमरः ॥ १ । ८ । १० । (यथा भागवते ३ । २ । २३ । “अहो वकी यं स्तनकालकूटं जिघांसयाऽपाययदप्यसाध्वी” ॥ अस्य स्वरूपं यथा, -- “देवासुररणे देवैर्हतस्य पृथुमालिनः । दैत्यस्य रुधिराज्जातस्तरुरश्वत्थसन्निभः ॥ निर्य्यासः कालकूटोऽस्य मुनिभिः परिकीर्त्तितः सो हि क्षेत्रे शृङ्गवेरे कोङ्कणे मलये भवेत्” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे १ भागे शोधन- मारणाधिकारे ॥ * ॥ देशविशेषः । यथा, महाभारते २ । २० । २६ । “कुरुभ्यः प्रस्थितास्ते तु मध्येन कुरुजाङ्गलम् । रम्यं पद्मसरो गत्वा कालकूटमतीत्य च” ॥)
