सामग्री पर जाएँ

कालचक्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कालचक्रम्, क्ली, (कालस्य कालगतेश्चक्रमिव ।) काल- रूपचक्रम् । यथाह -- हेमचन्द्रः ॥ “कालो द्विविधोऽवसर्पिण्युत्सर्पिणीषु भेदतः । सागरकोटिकोटीनां विंशत्या स समाप्यते ॥ अवसर्पिण्यां षडरा उत्सर्पिण्यां त एव विपरीताः । एवं द्वादशभिररैर्विवर्त्तते कालचक्रमिदम्” ॥ ज्योतिश्चक्रविशेषः । यथा, -- “त्रिनाभिमति पञ्चारे षण्णेमिन्यक्षयात्मके । सम्बत्सरमये कृत्स्नं कालचक्रं प्रतिष्ठितम्” ॥ इति विष्णुपुराणे २ । ८ । ४ । चक्रमेवोपासनार्थं विशिष्यन्नाह । त्रिनाभिमतीति । नाभिः स्तम्भः यत्राक्षः प्रोतः स च त्रिमेखलः । अह्नश्चात्र नाभित्वेनोपास्यत्वात् मेखलारूपास्तिस्रो नाभयः पूर्ब्बाह्णमध्याह्नापराह्णास्तद्युक्ते । पञ्चारे पञ्च संव- त्सरपरिवत्सरादयो वक्ष्यमाणा अराः शलाका यस्य सः तस्मिन् । षण्णेमिनि षट् ऋतवो नेमयः प्रान्तबलयानि तद्वति । कालात्मकत्वादक्षयात्मके । संवत्सरमये संवत्सरावयवमासा रम्भकत्वात् संव- त्सरत्वेनोपास्यत्वाच्च तन्मयम् । तदुक्तं मात्स्ये । “अहस्त्रिनाभिः सूर्य्यस्य त्वेकचक्रस्य वै स्मृतम् । अराः संवत्सराः पञ्च नेम्यः षडृतवः स्मृताः” ॥ इति । तस्मिन् कालचक्रं कालोपलक्षणभूतं कृत्स्नं ज्योतिश्चक्रं प्रतिष्ठितं आश्रितम् । सूर्य्यगत्यधीन- त्वात् कालचक्रफलस्य । इति तट्टीकायां श्रीधर- स्वामी ॥ (“स एष निमेषादियुगपर्य्यन्तः कालश्चक्र- वत् परिवर्त्त मानः कालचक्रमुच्यत इत्येके” ॥ इति सुश्रुते सूत्रस्थाने ६ अध्याये ॥)

"https://sa.wiktionary.org/w/index.php?title=कालचक्रम्&oldid=126489" इत्यस्माद् प्रतिप्राप्तम्