कालनेमिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालनेमिः, पुं, (कालम्य मृत्योः नेमिरिव चक्रवत् ।) स्वनामख्यातराक्षसः । स च लङ्कापते रावणस्य मातुलः । यथा, -- “कालनेमिं दुराधर्षं रक्षःपरमदुर्जयम् । चतुरास्यं चतुर्हस्तमष्टनेत्रं भयावहम्” ॥ इति गोः रामायणे ६ । ८२ । ६४ ॥ दैत्यविशेषः । यथा, -- श्रीभागवते । “आत्मानमिह संजातं जानन् प्राम्विष्णुना हतम् । महासुरं कालनेमिं यदुभिः स व्यरुध्यत” ॥ स तु हिरण्यकशिपुपुत्त्रः । इति हरिवंशः ॥ (कालचक्रम् ॥)
