कालपुरुषः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालपुरुषः पुं, (कालः कालचक्रं पुरुष इव ।) यम- सहायः । इति जटाधरः ॥ ज्योतिःशास्त्रम् । यथा “किन्त्वस्य कालपुरुषाख्यमहार्णवस्य गच्छेत् कदाचिदनृषिर्मनसापि पारम्” ॥ कालपुरुषः स चाख्या नाम यस्यासौ तस्य ज्योतिःशास्त्रविस्तीर्णसमुद्रस्य । इति भट्टोत्पलः ॥ * ॥ नराणां शुभाशुभज्ञानार्थं जन्मलग्नादिद्वादशरा- शिकल्पितपुरुषाकारः । यथा, -- “शीर्षमुखबाहुहृदयोदराणिकटिवस्तिगुह्यसंज्ञ- कानि । ऊरूजानुकजङ्घेचरणाविति च राशयो- ऽजाद्याः” ॥ इति दीपिका ॥ * ॥ नराणां शुभा- शुभज्ञानार्थं जन्मलग्नादिराशिद्रेक्काणघटितपुरु- षाकारः । यथा, “कं दृक्श्रोत्रनसाकपोलहनवो वक्त्रञ्च होरादयस्ते कण्ठांशकबाहुपार्श्वहृदयक्रो- डानिनाभिस्ततः । वस्तिः शिश्नगुदे ततश्च वृषणा- वूरूततो जानुनी जङ्क्षाङ्घ्री ह्युभयत्र वाममुदितै- र्द्रेक्काणभागैस्त्रिधा” ॥ इति “कालनरस्याङ्गेसद- सद्ग्रहयोगतः । पुंसामपि तदङ्गेषु शुभाशुभफलं वदेत्” ॥ इति वृहज्जातकम् ॥
