सामग्री पर जाएँ

कालरात्रिः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कालरात्रिः, स्त्री, (कालः कालरूपा ब्रह्मैकदिने चतु- र्द्दशमनूनामधिकारावसाने सृष्टिसंहारहेतुभूता रात्रिः ।) रात्रिविशेषः । सा तु कालः संहारः । मरणं तदुपलक्षितारात्रिः कल्पान्तरात्रिरित्यर्थः । इति देवीमाहात्म्यटीकायां विद्याविनोदः ॥ भीम- रथी । इति हारावली ॥ दुर्गायाः शक्तिविशेषः । यथा, -- “सा दूर्गा शक्तिभिः सार्द्धं काशीं रक्षति सर्व्वतः । ताः प्रयत्नेन संपूज्याः कालरात्रिमुखा नरैः” ॥ इति काशीखण्डम् ॥ (दीपावली । यथा, -- “दीपावली तु या प्रोक्ता कालरात्रिश्च सा मता” । इत्यागमवचनात् । क्रियायोग्यकालविशेषः । यदुक्तं दीपिकायाम् । “रवौ षष्ठं विधौ वेदं कुजवारे द्वितीयकम् । वुधे सप्त गुरौ पञ्च भृगुवारे तृतीयकम् ॥ शनावाद्यं तथा चान्तं रात्रौ कालं विवर्जयेत्” ॥)

"https://sa.wiktionary.org/w/index.php?title=कालरात्रिः&oldid=126536" इत्यस्माद् प्रतिप्राप्तम्