कालाग्निः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालाग्निः, पुं, (कालः सर्व्वसंहारकः अग्निः । प्रल- याग्निः । यथा महाभारते १ । ५४ । २५ । “ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् । नाशयिष्यामि माऽत्र त्वं भयं कार्षीः कथञ्चन” ॥ तदधिष्टातृरुद्रदेवस्य प्रियत्वात् पञ्चमुखरुद्राक्षो- ऽपि कालाग्निनाभ्नाख्यायते ।) पञ्चमुखरुद्राक्षः । यथा स्कान्दे । “पञ्चवक्त्रः स्वयं रुद्रः कालाग्निर्नाम नामतः । अगम्यागमनाञ्चेव अभक्ष्यस्य च भक्षणात् । मुच्यते सर्व्वपापेभ्यः पञ्चवक्व्रस्य धारणात्” ॥ इति तिथ्यादितत्त्वम् ॥
