कालाग्निरुद्रः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालाग्निरुद्रः, पुं, (कालः संहारकः अग्निः सम्बर्त्त- काग्निरित्यर्थः । तस्याधिष्ठाता रुद्रः । कालाग्नि रिव रुद्रो वा ।) संहारकारिरुद्रः । यथा । कालाग्निरुद्र ऋषिरित्यादि वैदिकसन्ध्यायां रुद्रो- पस्थानम् ॥ * ॥ तद्विवरणं यथा, -- शक्र उवाच । “भगवंस्तव वाक्यानां न तृप्तिर्भवते मम । कालाग्निपार्थिवं मानं श्रोतुमिच्छामि तत्त्वतः” ॥ भगवानुवाच । “न हि पार्थिवद्वीपेषु मेरुपृष्ठेऽपि वासव ! । भोगाह्लादकरा नॄणां तथा पातालवासिषु ॥ येषु नः कालरुद्रस्य नानास्त्रीशतसंकुला । विचित्रहर्म्म्यविन्यासा कुतस्ते मेरुपृष्टतः ॥ सा एव कालरुद्रस्य तनुरुपेण संस्थिता । सा पराशिवभावेन परमापददायिका ॥ तस्या यद्दुःसहं तेजो ब्रह्मादीनां क्षयं करम् । तं विद्धि कालरुद्रेति सौम्यरूपं सदाशिवम् ॥ कालाग्निव्यसनं लक्षं योजनानां प्रमाणतः । अर्द्धेनोच्छ्रयतस्तस्य पादाः पादेन वासव ! ॥ सिंहरूपा महाघोरा महानक्रा महाबलाः । कालाग्निरुद्ररूपो यो बहुरूपसमावृतः ॥ अनन्तपद्मरूपश्च धातारः कारणेश्वरः । दारुणाग्निश्च रुद्रश्च यमहन्ता क्षमान्तकः ॥ लोहितः क्रूरतेजात्मा घनो वृष्टिर्बलाहकः । विद्युतश्चलशीघ्रश्च प्रसन्नः शान्तसौम्यदृक् ॥ सर्व्वज्ञो विविधो बुद्धो द्युतिमान् दीप्तिसुप्रभः । एते रुद्रा महात्मानः कालिकाशक्तिवृंहिताः ॥ संहरन्ति समस्तेदं ब्रह्माद्यं सचराचरम् । कालाग्निभुवनीशोऽयं बहुकोटिभिरावृतः ॥ तस्याः पुरस्य विस्तारं शतकोटिसुवर्त्तुला । देवगन्धर्व्वसिद्धानां तत्र भोगाः सुदुर्ल्लभाः ॥ पूर्ब्बोत्तरपरा पङ्क्तिर्याम्योत्तरस्थिता परा । अनलानिलपरा च नैरृतीशानगापरा ॥ एतेषां मध्यतो राजन् कालरुद्रस्तु शोभने । पङ्क्त्याकारैः पुरैः सर्व्वं कटकं तस्य संस्थितम् ॥ समन्ताद्वेष्टितवनं प्राकाराट्टालगोपुरैः । वज्रेन्द्रनीलवैदूर्य्यैः प्राकारैः सर्व्वतोऽन्वितम् ॥ कालाग्निनरकान्ते तु पुरं कालस्य संस्थितम् । पञ्चाशल्लक्षविस्तारं समन्तात् परिवर्त्तुलम् ॥ जाम्बूनदमयैर्हेमैः खचितं रत्नधातुभिः ॥ प्रमदाजनसंजुष्टं नानावर्णसमावृतम् ॥ कामोन्मत्तप्रमत्तश्च तद्भाति जनसंकुलम् । कालस्य भुवनं दिव्यं वृत्ताकारं मनोहरम् ॥ वेष्टितं हेमप्राकारैर्योजनायुतमुच्छ्रितम् । प्राकारावहिदण्डान्ते अन्तरं योजनायुतम् ॥ अग्निज्वालैश्च निविडैर्भयदैः किंशुकप्रभैः । हरितालनिभा ज्वाला सिन्दूरगैरिकाप्रभा ॥ अत उर्द्ध्वं प्रजज्वाल वातोद्धूताग्निभास्वरा । वीचितरङ्गकल्लोलज्वालामालाकुलाम्बरा ॥ प्रवृत्तास्ताः प्रमाणेन योजनद्वयकोटयः । अष्टानवतिलक्षाणि ज्वाला ऊर्द्ध्वन्ततः शिला ॥ वज्रभूता सदा तप्ता तस्य तेजोनियामिका । चत्वारि कोटिमानेन कारणेन तु स्थापिता ॥ तस्यार्द्धेन भवेत् किञ्चित् कोट्यश्चत्वारि वासव ! । एवं कालाग्निरुद्रस्य माहात्म्यं कीर्त्तितं मया ॥ श्रवणात् सर्व्वपापानि शाम्यन्ति कालजान्यपि” ॥ इत्याद्ये देवीपुराणे कालाग्निरुद्रपुरकथनम् ॥ (कृष्णयजुर्व्वेदगतोपनिषद्विशेषः । यथा, मुक्ति- कोपनिषदि । “कालाग्निरुद्रमैत्रेयी सुवालक्षरि मन्त्रिका” ॥ वटिकौषधविशेषः । यथा, -- “सूतकान्ताभ्रलौहानां भस्ममाक्षिकगन्धकम् । भूधराख्ये पुटे पश्चाद्दिनैकं तद्विपाचयेत् ॥ दशमांशं विषं योज्यं माषमात्रञ्च भक्षयेत् । रसः कालाग्निरुद्रोऽयं दशाहेन विसपेनुत्” ॥ कालाग्निरुद्रोरसः ॥ इति रसेन्द्रसारसंग्रहे वीसर्पाधिकारे ॥ * ॥)
