सामग्री पर जाएँ

कालानुसार्य्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कालानुसार्य्यम्, क्ली, (कालेन मृगमदेनानुस्रियते । अनु + सृ गतौ + “ऋहलोर्ण्यत्” । ३ । १ । १२४ । इति ण्यत् ।) शैलेयम् । शैलज इति भाषा । कालीयकम् । कालीयानामपीतवर्णसुगन्धिका- ष्ठम् । इत्यमरः । २ । ४ । १२२ ॥ शिंशपावृक्षः । इति मेदिनी । शिशु इति भाषा ॥ तगरम् । इति भावप्रकाशः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कालानुसार्य्य¦ न॰ कालोमृगमदोगन्धेनानुसार्य्यो यस्य। तगरभेदे भावप्र॰ (कलम्बक)
“कालानुसार्य्यं तगरं कुटिलंत्रपुषं तथा। अपरं पिण्डतगरं दण्डहस्ती च बार्हिणम्। तगरद्वयमुष्णं स्यात् स्वादु स्निग्धं लघु स्मृतम्। विषाप-स्मारशूलाक्षिरोगदोषत्रयापहम्” तत्रैव तद्गुणादिकमु-क्तम्। बहु॰ वा कप्। कालानुसार्य्यक

२ कालीयकेशैलजे राजनि॰

३ शिंशपावृक्षे (शिशु) मेदि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कालानुसार्य्य¦ n. (-र्य्यं)
1. Gum benjamin or benzoin.
2. A yellow fragrant wood from which a perfume is prepared.
3. A timber tree, com- monly Sisu: see शिंशपा।
4. A tree, commonly Tagara. E. See the preceding; also with कन् added कालानुसार्य्यक।

"https://sa.wiktionary.org/w/index.php?title=कालानुसार्य्य&oldid=274937" इत्यस्माद् प्रतिप्राप्तम्