सामग्री पर जाएँ

कालायसम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कालायसम्, क्ली, (कालञ्च तत् अयश्चेति । “अनो- श्मायः सरसां जातिसंज्ञयोः” । ५ । ४ । ९४ । इति टच् ।) लौहम् । इत्यमरः । २ । ९ । ९८ । (यथा, गोः रामायणे । ५ । ४९ । ३२ । “ददर्श वीक्षमाणश्च परिघं तोरणाश्रयम् । तमादाय महाबाहुः कालायसमयं दृढम्” ॥ अस्य पर्य्याया यथा, -- “लोहोऽस्त्री शस्त्रकं तीक्ष्णंपिण्डं कालायसायसी” । अस्य सप्तदोषा यथा, -- “गुरुता दृढतोत्क्लेदः कश्मलं दाहकारिता । अश्मदोषः सुदुर्गन्धो दोषाः सप्तायसस्य तु” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

"https://sa.wiktionary.org/w/index.php?title=कालायसम्&oldid=126589" इत्यस्माद् प्रतिप्राप्तम्