कालिकाव्रतम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालिकाव्रतम्, क्ली, (कालिकायाः प्रीतये यद्व्रतं वि- हितनियमादिकम् ।) अमावास्यायां स्त्राकर्त्तव्य- व्रतविशेषः । यथा, -- युधिंष्ठिर उवाच । “कालिकाव्रतमाहात्म्यं वद वेदविदाम्बर ! । किमेतस्य फलं देव को वा तद्विधिरेव च ॥ कस्माद्व्रतमिदं भूतं मर्त्ये केन प्रकाशितम् । त्वत्तस्तत् श्रोतुमिच्छामि तत्सर्व्वं ब्रूहि केशव !” ॥ श्रीकृष्ण उवाच । “पुरा मविष्यशास्त्रेषु यदुक्तं धर्म्मसंहितम् । तत्सर्व्वं शृणु राजेन्द्र ! कालिकाव्रतमुत्तमम् ॥ स्वर्गे पुरन्दरश्चासीत्तस्यैव राजसद्मनि । यद्वृत्तान्तमभूत्तत्र तच्छृणुष्व युधिष्ठिर ! ॥ सभायां संस्थितो राजा नृत्यासक्तो हि नित्यशः । दिनैकस्य च वृत्तान्तं श्रुत्वा हृष्टो बभूव सः ॥ अत्यामोदं समभ्येत्य पुष्पवृष्टिरमुत्तदा । पुरन्दरः स्वयं प्राप्य पारिजातं गृहीतवान् ॥ घ्रात्वा राज्ञा तदा पुष्पं प्रदत्तं तद्द्विजातये । लज्जितो ब्राह्मणः सोऽपि मानहीनोऽभवत्तदा ॥ क्रोधेन महताविष्टः शप्तुं कामसमन्वितः । क्षणं विमृष्य चेन्द्राय शापो दत्तः सुदारुणः ॥ व्याधालयेषु मार्ज्जारो द्वादशाब्दं भविष्यसि । तेन कर्म्मविपाकेन मदयुक्तो विचेतनः ॥ प्राप्तमार्ज्जारदेहोऽसौ राजा विपिनमास्थितः । पत्नी तस्य च तत्रासीत् पत्युः सर्व्वाधिकारिणी ॥ ततो व्याधगृहे राजा मार्ज्जारीभूय तिष्ठति । ततः पुरन्दरपुरं राजशून्यमभूत्तदा ॥ शची तु चिन्तायामास अन्नपानं विहाय सा । उपवासं समाचर्य्य मासमेकन्तु तिष्ठति ॥ ततो देवगणाः सर्व्वे चिन्तया व्याकुलेन्द्रियाः । गत्वा तु राजभवनं व्याकुलां तां विलोक्य च ॥ विमृष्य चामराः सर्व्वे शच्यै वाक्यमुदाहरन् । शचि ! त्वं राजजायासि कथमेतत् करोषि च ॥ मासमेकमनाहारं कृत्वा तिष्ठसि सुव्रते ! । किं वा त्वदीप्सितं देवि ! सत्येन वद पण्डिते ॥ तच्छ्रुत्वा तु तदा देवी कृताञ्जलिरभाषत । यूयमेव जगन्नाथाः सृष्टिस्थित्थन्तकारकाः ॥ क्व गतो मम भर्त्ता च तन्न जानामि कत्थताम् । परिचिन्त्यामराः सर्व्व ध्यानमास्थाय संस्थिताः ॥ मार्ज्जाररूपमास्थाय स्थीयते चान्त्यजाश्रमे । तच्छ्रुत्वा राजपत्नी च वेपमाना मुहुर्मुहुः ॥ उवाच कुशलं प्रश्नं राजार्थं किं करोम्यहम् । पत्युर्यथा विमोक्षः स्यात् तत् कुरुध्वं सुधाशनाः ॥ प्रत्यूचुश्चामराः सर्व्वे याहि त्वं दिजसन्निधिम् । संभाव्य मधुरं प्रश्नं द्विजसेवां समाचर । द्विजगेहं समागत्य द्विजसेवापराऽभवत् ॥ शुद्धकाले समारभ्य कृष्णपक्षे चतुर्द्दशीम् ॥ संकल्प्य विधिना पूर्ब्बममावास्यां व्रतं चरेत् । समारभ्य गुणैकेन द्विगुणं परिशोधयेत् ॥ न रात्रौ भोजनं कार्य्यं वामहस्ते भुजिक्रिया । सिद्धमन्नं रात्रिकाले दग्धमीनञ्च सर्व्वदा ॥ वर्ज्जयेत् पिष्टकं किञ्चित् रक्तशाकस्य चाम्लकम् । द्विषट्कां विप्रजायाञ्च सधवां भोजयेत्ततः ॥ एवं क्रमेण कृत्वा तु कतिकालं नयेद्व्रतम् । ततः शुद्धदिने प्राप्ते भौमाहे मन्दवासरे ॥ यथाशक्त्युपचारैश्च पूजां कुर्य्याद्विधानतः । तथापराह्णकाले तु सन्ध्योपसमये तथा ॥ रात्रौ तु कदलीकाण्डे गृहं निर्म्माय प्राङ्गणे । तस्य मध्ये समारोप्य कालिकां पूजयेत् सदा ॥ पाद्यार्घ्याचमनीयैश्च गन्धपुष्पादिभिस्तथा । धूपैर्दिव्यप्रदीपैश्च नैवेद्यैर्विविधैस्तथा ॥ पिष्टकं चैव सिद्धान्नं व्यञ्जनं दग्धमीनकम् । निवेद्य सकलं देव्यै बलिं दत्त्वा प्रणम्य च ॥ तदन्नं व्यञ्जनं सर्व्वं नैवेद्यादिबलिं तथा । महारण्ये प्रदातव्यं कृत्वैतत् व्रतमुत्तमम् ॥ वैणवे कदलीमूले या कुर्य्यात् कालिकाव्रतम् । कार्य्यसिद्धिर्भवेत् तस्या भविता गतिरुत्तमा ॥ एतद्व्रतविधानन्तु कृत्वा सिद्धिर्भविष्यति । एतद्व्रतमिदं भद्रे कुरु गत्वा निजालयम् ॥ तस्यास्तद्वचनं श्रुत्वा सा शची हर्षमानसा । गृहमागत्य सा तस्या वार्षिकं व्रतमाचरत् ॥ गन्धपुष्पैर्धूपदीपैर्नैवेद्यैरुत्तमैस्तथा । कृत्वा चाश्ममयीं देवीं पूजयेत् भक्तिसंयुता ॥ नानासुगन्धिपुष्पाणि दिव्यरत्नाद्यलङ्कृतम् । सिद्धान्नं पायसञ्चैव शर्करान्वितपिष्टकम् ॥ अमृतायुतहावञ्च दीयते च प्रयत्नतः । लुलापच्छागमेषादिबलिं दत्त्वा प्रभूतकम् ॥ नानावाद्यो द्यमैर्गीतैः प्रणिपत्य पुनः पुनः । कृताञ्जलिपुटा स्तोत्रं भक्तिनम्रा चकार सा ॥ तुष्टा प्राह महाकाली वरं वृणु शुभानने ! । तत् श्रुत्वा राजपत्नी सा बभाषे च मुदान्विता ॥ मत्प्रभुराखुभुक् भूतस्तन्मोक्षं कुरु चेश्वरि ! । वरं दत्त्वा हैमवती बभूवान्तर्हिता नृप ! ॥ द्वादशाब्दाच्च तत्शापान्मोचितो वत्सरे तदा । मार्ज्जाररूपं सन्त्यज्य स गतोऽन्तेऽमरावतीम् ॥ पुष्पवृष्टिश्च दुन्दुभ्या वाद्यं देवगणैः कृतम् । कालिकायाः प्रसादेन गतः शक्रो निजालयम् ॥ अनेनैव विधानेन या कुर्य्यात् कालिकाव्रतम् । सत्वरं कार्य्यसिद्धिः स्यात्तस्या अत्र न संशयः” ॥ इति भविष्यपुराणे कालिकाव्रतकथा समाप्ता ॥
