कालिङ्ग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालिङ्गम्, क्ली, (केन जलेन आलिङ्ग्यतेऽसौ । आ + लिगि + कर्म्मणि घञ् ।) फलविशेषः । तरमुज् इति ख्यातम् । तत्पर्य्यायः । कालिन्दकम् २ कृष्ण- वीजम् ३ फलवर्त्तुलम् ४ । अस्य गुणाः । शीतल- त्वम् । ग्राहित्वम् । स्वादुपाकरसत्वम् । गुरुत्वम् । विष्टम्भित्वम् । स्यन्दित्वम् । दृक्शुक्रपित्तनाशि- त्वम् । कफवातकारित्वञ्च । पक्वस्य तस्य गुणाः । पित्तंवृद्धिकारित्वम् । उष्णत्वम् । क्षारत्वम् । कफ- वातनाशित्वञ्च । तत्पत्रगुणौ । रुधिरस्थापनत्वम् । तिक्तत्वञ्च । इति पथ्यापथ्यविवेकः ॥
कालिङ्गः, पुं, (केन जलेनालिङ्ग्यते इति । क + आ लिगि + कर्म्मणि घञ् ।) भूमिकर्कारुः । (कं जल- मालिङ्गति । आ + लिगि + कर्म्मण्यण् ।) हस्ती । (कं वातं आलिङ्गति गृह्णाति अश्नाति इत्यर्थः ।) सर्पः । इति मेदिनी ॥ (कुत्सितं लिङ्गं अङ्गादि- चिह्नं यस्येति कोः कादेशः ।) लौहभेदः । अस्य लक्षणम् । “कालिङ्गो लिङ्गवान् यः स्याद्घनः सूक्ष्माङ्गको मतः” । इति सुखबोधः ॥ (कलिङ्गे भवः । अण् । कलिङ्गदेशोद्भवः । यथा महा- भारते ८ । कर्णशल्यसंवादे ४५ । १४ । “कुरवः सहपाञ्चालाः शाल्वा मत्स्याः सनैमिषाः । कोमलाःकाशयोऽङ्गाश्च कालिङ्गा मागधा स्तथा” ॥ कलिङ्गदेशस्य राजा । अण् । कलिङ्गराजः । यथा रघुः ४ । ४० । “प्रतिजग्राह कालिङ्गः तमस्त्रैर्गजसाधनः । पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्व्वतः” ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालिङ्ग¦ न॰ केन जर्लनालिङ्ग्यते आ + लिगि--कर्म्मणि घञ्
३ त॰। (तरमुज) मध्यस्थजलके फलमेदे।
“कालिन्दंकृष्णवीजं स्यात् कालिङ्गं च सुवर्त्तुलम्। कालिङ्गंग्राहि दृक्पित्तशुक्रहृच्छीतलं गुरु। पक्वं तु सोष्णंसक्षारं पित्तलं कफवातजित्” भावप्र॰ तत्पर्थ्यायस्वरूपगुणादिकमुक्तम्।
“कलिङ्गे भवः अण्।
२ कलिङ्गदेशोद्भवेत्रि॰ स्त्रियां ङीप्। तद्देशानां राजा अण्।
३ कलिङ्ग-देशनृपे।
“प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधनः” रघुः
“वर्गैराग्नेयाद्यैः क्रूरग्रहपीडितैः क्रमेण नृपाः। पाकलोमागधिकः कालिङ्गश्च क्षयं यान्ति” वृहत्सं॰।
“निर्वृत्तशत्रुं कालिङ्गं गान्धाराधिपतिं तथा” हरि॰[Page2018-a+ 38]
११
१७ अ॰। बहुषु तु अणोलुक्। कलिङ्गा इत्येव तद्राजेषुतद्वासिषु च भूम्नि। क्वचिन्न लुक्।
“कारस्करान्माहिषकान् कालिङ्गान् केरलांस्तथा” भा॰ क॰
४४ अ॰।
“कोशलाःकाशपौण्ड्राश्च कालिङ्गा मगधास्तथा”
४५ अ॰।
“कलिङ्गदेशमारभ्य पञ्चाष्टयोजनं शिवे!। दक्षिणस्यांमहेशानि!। कालिङ्गः परिकीर्त्तितः” इति
३ उक्तदेशभेदेएतत्परतयैव प्रागुक्तभारतवाक्ये लुगभावो न कल्पनीयः। कं जलमालिङ्गति आ + लिगि--अण् उप॰ स॰।
४ हस्तिनि
५ सर्पे च पुंस्त्री स्त्रियां जातित्वात् ङीष्।
६ भूमिकर्कारौ पु॰ मेदि॰।
“कालिङ्गोलिङ्गवान्यः स्याद्-धनः सूक्ष्माङ्गकोमतः” इति सुखबोधोक्ते
७ लौहमेदेपु॰।
८ राजकर्कट्यां स्त्री गौरा॰ ङीष मेदि॰। स्वार्थे कअत इत्त्वम्। कालिङ्गिका त्रिवृति (तेओडी) राजनि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालिङ्ग¦ mfn. (-ङ्गः-ङ्गी-ङ्गः) Produced in or belonging to the Kalinga country. m. (-ङ्गः)
1. An elephant.
2. A snake.
3. A species of cucumber, (Cucumis utilatissimus.)
4. A sort of iron. f. (-ङ्गी) A gourd or cucumber. n. (-ङ्गं) The water melon. E. कलिङ्ग a country, and अण् aff.
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालिङ्ग [kāliṅga], a. (-ङ्गी f.) [कलिङ्ग-अण्] Produced in, or belonging to, the Kaliṅga country.
ङ्गः A king of that country; प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधनः R.4.4.
A snake of that country.
An elephant.
A species of cucumber.
A poisonous plant.
A sort of iron. -ङ्गाः (pl.) N. of a country; see कलिङ्ग. -ङ्गम् A water-melon.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालिङ्ग m. " produced in or belonging to the कलिङ्गcountry " , a कलिङ्गman VP.
कालिङ्ग m. ( Pa1n2. 4-1 , 170 ) a prince of the कलिङ्गs Hariv. Ragh. iv , 40 etc.
कालिङ्ग m. ( pl. )the कलिङ्गs MBh. VP.
कालिङ्ग m. an elephant L.
कालिङ्ग m. a snake L.
कालिङ्ग m. a species of cucumber (Cucumis usitatissimus) L.
कालिङ्ग m. Beninkasa cerifera
कालिङ्ग m. a poisonous plant L.
कालिङ्ग m. a sort of iron
कालिङ्ग mn. the plant Wrightia antidysenterica Bhpr.
कालिङ्ग mn. a kind of gourd L.
कालिङ्ग n. the water-melon.
Purana Encyclopedia
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
KĀLIṄGA : Śrutāyus, King of Kaliṅga, and a member of Yudhiṣṭhira's assembly. (Sabhā Parva, Chapter 4).
_______________________________
*5th word in right half of page 375 (+offset) in original book.
