सामग्री पर जाएँ

कालिङ्गः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कालिङ्गः, पुं, (केन जलेनालिङ्ग्यते इति । क + आ लिगि + कर्म्मणि घञ् ।) भूमिकर्कारुः । (कं जल- मालिङ्गति । आ + लिगि + कर्म्मण्यण् ।) हस्ती । (कं वातं आलिङ्गति गृह्णाति अश्नाति इत्यर्थः ।) सर्पः । इति मेदिनी ॥ (कुत्सितं लिङ्गं अङ्गादि- चिह्नं यस्येति कोः कादेशः ।) लौहभेदः । अस्य लक्षणम् । “कालिङ्गो लिङ्गवान् यः स्याद्घनः सूक्ष्माङ्गको मतः” । इति सुखबोधः ॥ (कलिङ्गे भवः । अण् । कलिङ्गदेशोद्भवः । यथा महा- भारते ८ । कर्णशल्यसंवादे ४५ । १४ । “कुरवः सहपाञ्चालाः शाल्वा मत्स्याः सनैमिषाः । कोमलाःकाशयोऽङ्गाश्च कालिङ्गा मागधा स्तथा” ॥ कलिङ्गदेशस्य राजा । अण् । कलिङ्गराजः । यथा रघुः ४ । ४० । “प्रतिजग्राह कालिङ्गः तमस्त्रैर्गजसाधनः । पक्षच्छेदोद्यतं शक्रं शिलावर्षीव पर्व्वतः” ॥)

"https://sa.wiktionary.org/w/index.php?title=कालिङ्गः&oldid=126598" इत्यस्माद् प्रतिप्राप्तम्