कालिङ्गम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालिङ्गम्, क्ली, (केन जलेन आलिङ्ग्यतेऽसौ । आ + लिगि + कर्म्मणि घञ् ।) फलविशेषः । तरमुज् इति ख्यातम् । तत्पर्य्यायः । कालिन्दकम् २ कृष्ण- वीजम् ३ फलवर्त्तुलम् ४ । अस्य गुणाः । शीतल- त्वम् । ग्राहित्वम् । स्वादुपाकरसत्वम् । गुरुत्वम् । विष्टम्भित्वम् । स्यन्दित्वम् । दृक्शुक्रपित्तनाशि- त्वम् । कफवातकारित्वञ्च । पक्वस्य तस्य गुणाः । पित्तंवृद्धिकारित्वम् । उष्णत्वम् । क्षारत्वम् । कफ- वातनाशित्वञ्च । तत्पत्रगुणौ । रुधिरस्थापनत्वम् । तिक्तत्वञ्च । इति पथ्यापथ्यविवेकः ॥
