सामग्री पर जाएँ

कालिन्दीकर्षण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कालिन्दीकर्षणः, पुं, (कालिन्दीं कर्षति यः । कृष् + कर्त्तरि ल्युः । कालिन्द्याः कर्षणो वा ।) बलदेवः । इति हलायुधः ॥ (कालिन्दीसङ्कर्षणकथा हरिवंशे १०२ अध्याये उक्ता । तद्यथा, -- “रामस्तु यमुनामाह स्नातुमिच्छे महानदि ! । एहि मामभिगच्छस्व रूपिणी सागरङ्गमे ॥ सङ्कर्षणस्य मत्तोक्तां भारतीं परिभूय सा । नाभ्यवर्त्तत तं देशं स्त्रीस्वभावेन मोहिता ॥ ततश्चुक्रोध बलवान् रामो मदसमीरितः । चकार स हलं हस्ते कर्षणधोमुखं बली ॥ तस्यामुपरि मेदिन्यां पेतुस्तामरसस्रजः । मुमुचुः पुष्पकोषैश्च पुष्परेण्वरुणं जलम् ॥ स हलेनानताग्रेण कुले गृह्य महानदीम् । चकर्ष यमुना रामो व्युत्थितां वनितामिव ॥ सा विह्वलजलस्रोता ह्रदप्रस्थितसञ्चया । व्यावर्त्तत नदी भीता हलमार्गानुसारिणी ॥ लाङ्गलादिष्टमार्गा सा वेगगा वक्रगामिणी । सङ्कर्षणभयत्रस्ता योषेवाकुलतां गता ॥ पुलिनश्रोणिविम्बोष्ठी मृदितैस्तोयताडितैः । फेनमेखलसूत्रैश्च वेगगाम्बुदगामिनी ॥ तरङ्गविषभापीडा चक्रवाकोन्मुखस्तनी । वेगगम्भीरवक्राङ्गी त्रस्तमीनविभूषणा ॥ सितहंसेक्षणापाङ्गी काशक्षौमोच्छ्रिताम्बरा । तीरजोद्धूतकेशान्ता जलस्खलितगामिनी ॥ लाङ्गलोल्लिखितापाङ्गी क्षुभिता सागरङ्गमा । मत्तेव कुटिला नारी राजमार्गेण गच्छती ॥ कृष्यते सा स्म वेगेन स्रोतःस्खलितगामिनी । उन्मार्गा नीतमार्गा सा येन वृन्दावनं वनम् ॥ वृन्दावनस्य मध्येन सा नीता यमुना नदी । रोरूयमाणेव खगैरन्विता तोयवासिभिः ॥ सा यदा समभिक्रान्ता नदी वृन्दावनं वनम् । तदा स्त्रीरूपिणी भूत्वा यमुना राममब्रवीत् ॥ प्रसीद नाथ ! भीतास्मि प्रतिलोमेन कर्म्मणा । विपरीतमिदं रूपं तोयञ्च मम जायते ॥ असत्यहं नदीमध्ये रौहिणेय ! त्वया कृता । कर्षणेन महाबाहो स्वमार्गव्यभिचारिणी ॥ प्राप्तां मां सागरे नूनं सपत्न्यो वेगगर्व्विताः । फेनहासैर्हसिष्यन्ति तोयव्यावृत्तगामिनीम् ॥ प्रसादं कुरु मे वीर ! याचे त्वां कृष्णपूर्ब्बज ! । सुप्रसन्नमना नित्यं भव त्वं सुरसत्तम ! ॥ कर्षणायुधकृष्टास्मि रोषोऽयं विनिवर्त्त्यताम् ॥ गच्छामि चरणौ मूर्द्ध्ना तवैषा लाङ्गलायुघ ! । मार्गमादिष्टमिच्छामि क्व गच्छामि महाभुज !” ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कालिन्दीकर्षण¦ न॰ कालिन्दीं यमुनां कर्षति कृष--ल्यु

६ त॰। बलदेवे तत्कर्षणकथा च हरि॰

११

२ अ॰ यथा
“स मत्तो बलिनां श्रेष्ठो रराजाघूर्णिताननः। शैशिरीषुत्रियामासु यथा स्वेदालयः शशी। रामस्तु यमुनामाहस्नातुमिच्छे महानदि!। एहि मामभिगच्छ त्वं रूपिणीसागराङ्गने। सङ्कर्पणस्य मत्प्रोक्तां भारतीं परिभूय सा। नाभ्यवर्त्तत तं देशं स्त्रीस्वभावेन मोहिता। ततश्चुक्रोधहलभृद्रामो मदसमीरितः। चकार स हलं हस्ते कर्ष-णाधोमुखं बली। तस्यामुपरि मेदिन्यां पेतुस्तामरसस्रजः। मुमुचुः पुष्पकोषैश्च पुष्परेण्वरुणं जलम्। स हलेना-नताग्रेण कूले गृह्य महानदीम्। चकर्ष यमुनां रामोव्युत्थितां वनितामिव। सा विह्वलजलस्रोता ह्रदप्रस्थि-तसञ्चया। व्यावर्त्तत नदी भीता हलमार्गोनुसारिणी। लाङ्गलादिष्टमार्गा सा वेगगा वक्रगामिणी। सङ्कर्षण-भयत्रस्ता योषेवाकुलताङ्गता। पुलिनश्रोणिविम्बोष्ठीमृदितैस्तोयताडितैः। फेनमेखलसूत्रैश्च च्छिन्नैस्तीरा-न्तगामिनी। तरङ्गविषमापीडा चक्रवाकोन्मुखस्तनी। [Page2020-a+ 38] वेगगन्भीरवक्राङ्गी त्रस्तमीनविभूषणा। सितहंसेक्षणा-पाङ्गी काशक्षौमोञ्झिताम्बरा। तीरजोद्धृतकेशाताजलस्खलितगामिनी। लाङ्गलोल्लिखितापाङ्गी क्षुभितासागराङ्गना। मत्तेव कुटिलापाङ्गी राजमार्गेण गच्छ-ति। कृष्यते सा स्म वेगेन स्रोतस्खलितगामिनी। उन्मार्गानीतमार्गा सा येन वृन्दावनं वनम्। वृन्दावनस्यमध्येन सा नीता यमुना नदी। रोरूयमाणेव खरै-रन्विता तोयवासिभिः। सा यदा समनुक्रान्ता नदीवृन्दावनं वनम्। तदा स्त्रीरूपिणी भूत्वा यमुना रामम-ब्रवीत्। प्रसीद नाथ! भीताऽस्मि प्रतिलोमेन कर्म्मणा। विपरीतमिदं रूपं तोयञ्च मम जायते। असत्यहं न-दीमध्ये रौहिणेय! त्वया कृता। कर्षणेन महाबाहो!स्वमार्गव्यभिचारिणी। प्राप्तां मां सागरे नूनं सपत्न्योवेगगर्व्विताः। फेनहासैर्हसिष्यन्ति तोयव्यावृत्तगामि-नीम्। प्रसादं कुरु मे वीर! याचे त्वां कृष्णपूर्बज!। सुप्रसन्नमना नित्यं भवस्व त्वं सुरोत्तम!। कर्षणायुध-कृष्टाऽस्मि रोषोऽयं विनिवर्त्त्यताम्। गच्छामि चरणौमूर्द्ध्ना तवाहं लाङ्गलायुध!। मार्गमादिष्टमिच्छामि क्वगच्छामि महाभुज!”।
“प्रणामावनतां दृष्ट्वा यमुनां ला-ङ्गलायुधः। प्रत्युवाचार्णवबधूं मदक्लान्तमिदं वचः। लाङ्गलादिष्टमार्गा त्वमिमं मे प्रियदर्शने!। देशमम्बुप्र-दानेन प्लावयस्वास्विलं शुभे!। एष ते सुभ्रु! सन्देशः कथितःसागराङ्गने!। शान्तिं व्रज महाभाये! गम्यताञ्च यथा-सुखम्। लोका हि यावत् स्थास्यन्ति तावत् तिष्ठतु मेयशः। यमुनाकर्षणं दृष्ट्वा सर्व्वे ते व्रजवासिनः”। कालिर्न्दी भिनत्ति भिद--ल्यु

६ त॰। कालिन्दीभेदनो-ऽप्यत्र अमरः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कालिन्दीकर्षण¦ m. (-णः) A name of BALARAMA. E. कालिन्दी the YAMUNA, and कर्षण the plougher; having diverted the stream into a new and devious channel, marked out by his ploughshare.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कालिन्दीकर्षण/ कालिन्दी--कर्षण m. " diverting the यमुनाstream " , N. of बल-राम(who diverted the यमुनाinto a new and devious channel marked out by his ploughshare) L.

"https://sa.wiktionary.org/w/index.php?title=कालिन्दीकर्षण&oldid=496101" इत्यस्माद् प्रतिप्राप्तम्