कालीयकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालीयकम्, क्ली, (कालीय + स्वार्थे कन् । कालीयमिव कायति वा । कै + कः ।) कालिया इति ख्यातं पीतवर्णसुगन्धिकाष्ठम् । इत्यमरटीकासारसुन्दरी ॥ (यथा, महाभारते २ । ५१ । १० । “चन्दनागुरुकाष्ठानां भारान् कालीयकस्य च । चर्म्मरत्नमुवर्णानां गन्धानाञ्चैव राशयः” ॥) तत्पर्य्यायः । जायकं २ कालानुसार्य्यं ३ । इत्यमरः । २ । ६ । १२६ ॥ जावकम् ४ । इति टीकासर्व्वस्वम् ॥ कालेयम् ५ वर्णकम् ६ कान्तिदायकम् ७ । इति भरतधृतव्याडिः ॥ राजनिर्घण्टोक्तगुणपर्य्यायौ पी- तचन्दनशब्दे द्रष्टव्यौ ॥ कृष्णचन्दनम् । तत्पर्य्यायः । कालीयम् २ कालिकम् ३ हरिप्रियम् ४ । इति शन्दचन्द्रिका ॥ दारुहरिद्रा । इति राजनिर्घण्टः ॥ (अस्य व्यवहारो यत्र तद्यथा, “सालसाराज- कर्णस्वदिरकदरकालस्कन्धक्रमुकभूर्जमेष शृङ्गीति निशचन्दनकुचन्दनशिंशपा शिरीषासनधवार्ज्जु- नतालशाकनक्तमालपूतीकाश्वकर्णागुरूणि काली- यकञ्चेति” ॥ इति सुश्रुते सूत्रस्थाने । ३८ च्यध्यायः ॥)
