कालेयम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कालेयम्, क्ली, (कं सुखं आलेयं आदेयं यस्मात् ।) कालियानामपीतवर्णसुगन्धिकाष्ठम् । इति व्याडिः रमानाथश्च ॥ (यथा, कुमारे ७ । ९ । “तां लोध्रकल्केन हृताङ्गतैला- माश्यानकालेयकृताङ्गरागाम्” ॥ कलायै रक्तधारिण्यै हितं इति ढक् ।) काल- खण्डनम् । यकृत् इति यावत् इति मेदिनी ॥
