काव्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काव्यः, पुं, (कवेः भृगोरपत्यं पुमान् इति “कुर्व्वाद्दिभ्यो ण्यः” ४ । १ । १५१ । इति ण्यः । यञ् इति केचित् ।) शुक्राचार्य्यः । इति मेदिनी ॥ (यथा, महाभारते १ । सम्भवपर्व्वणि ७६ । ६ । “जिगीषया ततो देवा वव्रिरेऽङ्गिरसं मुनिम् । पौरहित्येन याज्यत्वे काव्यं तूशनसं परे” ॥ तामसमन्वन्तरीयऋषिविशेषः । यथा, मार्कण्डेये ७४ । ५९ । “ज्यीतिर्धामा पृथुः काव्यश्चैत्रोऽग्निर्बलकस्तथा । पीबरश्च तथा ब्रहान् सप्त सप्तर्षयोऽभवन्” ॥)
