सामग्री पर जाएँ

काशः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काशः, पुं क्ली, (काशते दीप्यते शोभते इति यावत् । काशृ ङ दीप्तौ + पचाद्यच् ।) तृणभेदः । केश्या इति भाषा । इति मेदिनी ॥ (यथा रघुः ४ । १७ । “पुण्डरीकातपत्रस्तं विकसत् काशचामरः । ऋतुर्विडम्बयामास न पुनः प्राप तच्छ्रियम्” ॥) तत्पर्य्यायः ॥ इक्षुगन्धा २ पोटगलः ३ । इत्यमरः । २ । ४ । १६२ ॥ कासः ४ । इति भरतः ॥ काशी । ५ । इति मुकुटादयः ॥ काशा ६ । इति नयना- नन्दः ॥ वायसेक्षुः ७ काण्डेक्षुः ८ अमरपुष्पकः ९ । इति रत्नमाला ॥ काशकः १० वनहासकः ११ । इति शब्दरत्नावली ॥ इक्ष्वारिः १२ काकेक्षुः १३ इक्षुरः १४ इक्षुकाण्डः १५ शारदः १६ सित- पुष्पकः १७ नादेयः १८ दर्भपत्रः १९ लेखनः २० काण्डकाण्डकः २१ कच्छलकारकः २२ । अस्य गुणाः । शिशिरत्वम् । गौल्यत्वम् । रुचिकारित्वम् । पित्तदाहनाशित्वम् । तृप्तिबलशुक्रकारित्वम् । श्रम- शोषकफापहत्वञ्च । इति राजनिर्घण्टः ॥ कण्ठक- ण्डूयनम् । इति शब्दरत्नावली ॥ तत्पर्य्यायगुणाः । “काशः काकेक्षुरुद्दिष्टः स स्यादिक्षुरसस्तथा । इक्ष्वालिकेक्षुगन्धा च तथा पोटगलः स्मृतः ॥ काशः म्यान्मधुरस्तिक्तः स्वादुपाके हिमः सरः । मूत्रकृच्छ्राश्मदाहास्रक्षयपित्तजरोगजित्” ॥ इति भावप्रकाशः ॥

काशः, पुं, (केन जलेन कफात्मकेन अश्यते व्याप्यते- ऽत्र । क + अश + अधिकरणे घञ् ।) क्षतम् । “कण्टकारीतुलां नीरद्रीणे पक्त्वा कषायकम् । पादशेषं गृहीत्वा च तत्र चूर्णानि दापयेत् ॥ पृथक् पलांशान्येतानि गुडूचीचव्यचित्रकाः । मुस्तं कर्कटशृङ्गी च त्र्युषणं धन्वयासकः ॥ भार्गी रास्ना सटी चैव शर्करा पलविंशतिः । प्रत्येकञ्च पलान्यष्टौ प्रदद्यात् घृततैलयोः ॥ पक्त्वा लेहत्वमानीय शीते मधुपलाष्टकम् । चतुष्पलं तुगाक्षीर्य्याः पिप्पलीञ्च चतुष्पलाम् ॥ क्षिप्त्वा निदध्यात् सुदृढे मृण्मये भाजने शुभे । लेहोऽयं हन्ति हिक्कार्त्तिकासश्वासानशेषतः” ॥ कण्टकार्य्यावलेहः । इति कासाधिकारः । इति भावप्रकाशः ॥ * ॥ अपि च । “हरीतकीकणा शुण्ठी मरिचं गुडसंयुतम् । काशघ्नो मोदकः प्रोक्तस्तृष्णारोचकनाशनः ॥ कण्टकारीगुडूचीभ्यां पृथक् त्रिंशत्पलाद्रसे । प्रस्थसिद्धो घृताद्वातकाशनुद्दह्निदीपनः” ॥ इति गारुडे १७४ अध्यायः ॥ “मनःशिला बलापूलं काकपर्णञ्च गुग्गुलुम् । जातिपत्रं कोलिपत्रं तथा चैव मनःशिला ॥ एभिश्चैव कृता वर्त्तिर्बदराग्नौ महेश्वर ! । धूमपानं काशहरं नात्र कार्य्या विचारणा” ॥ इति च गारुडे १९४ अध्यायः ॥ “कतकस्य फलं शङ्खं सैन्धवं त्र्युषणं वचा । फेनोरसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला । एषां वर्त्तिर्हन्ति काशं तिमिरं पटलं यथा” ॥ इति तत्रैव १९८ अध्यायः ॥ “अभयामलकं द्राक्षा पिप्पली कण्टकारिका । शृङ्गं पुनर्नवा शुण्ठी जग्धा काशं निहन्ति वै” ॥ इति च तत्रैव १९९ अध्यायः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काशः [kāśḥ] शकः [śakḥ] शम् [śam], शकः शम् [काश्-अच्] A kind of grass used for mats, roofs, &c. -शम् A flower of that grass; Ku. 7.11; R.4.17; Ṛs.3.1,2,28. चरति पुलिनेषु हंसी काशां- शुकवासिनी सुसंहृष्टा Pratimā.1.2.

शः = कास q. v.

Appearance.

Splendour. यन्माययापि विबुधा मुह्यन्ति ज्ञानकाशया Bhāg.12.1.2. -Comp. -कृत्स्नः N. of a Grammarian.

"https://sa.wiktionary.org/w/index.php?title=काशः&oldid=275607" इत्यस्माद् प्रतिप्राप्तम्