काशिराजः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काशिराजः, पुं, (काश्याः राजा । “राजाहः सखि- भ्यष्टच्” । ५ । ४ । ९१ इति टच् ।) वाराणसी- राजः । तत्पर्य्यायः । धन्वन्तरिः २ दिवोदासः ३ सुधोद्भवः ४ । इति त्रिकाण्डशेषः ॥ (यदि च क्रगाण्वयेन तत्र बहवो राजान आसन् । तथापि तत्स्थानाधिकारित्वात् यदा योऽधि- कारी स एव काशिराजः अतो नासाधुप्रयोग इति मन्यामहे ॥ “अथ खलु भगवन्तममरवर- मृषिगणपरिवृतमाश्रमस्थं काशिराजं दिवोदासं धन्वन्तरिमौपधेनव वैतरणौरभ्रपौष्कलावतकर- वीर्य्यगोपुररक्षितसुश्रुतप्रभृतय ऊचुः” ॥ इति सुश्रुते सूत्रस्थांने १ अः ॥)
