काशीखण्ड
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काशीखण्ड¦ न॰ काशीमाहात्म्यप्रतिपादकं खण्डम्। स्कन्द-पुराणान्तर्गते काशीमाहात्म्यादिप्रतिपादके व्यासप्रणीतेखण्डभेदे तत्प्रतिपाद्यविषयाश्च तत्रानुक्रमणिकाध्यायेदर्शिता यथा
“विन्ध्यनारदसंवादः प्रथमं परिकीर्त्तितः। सत्यलोकप्रभावश्च द्वितीयः समुदाहृतः। अगस्तेराश्रमपदे देवानामागमस्ततः। पतिब्रताचरित्रं च प्रस्थानंकुम्भसम्भुवः। तीर्थप्रशंसा च ततः सप्तपूर्य्यस्ततःस्मृताः। संयमिन्याः स्वरूपञ्च ब्रह्मलोकस्ततः परम्। इन्द्राग्न्योर्लोकसंप्राप्तिस्ततश्च शिवशर्म्मणः। अग्नेःसमुद्भवस्तस्मात् क्रव्याद्बरुणसम्भवः। गन्धवत्यलकापु-र्य्योरीशयोस्तु समुद्भवः। चन्द्रलोकपरिप्राप्तिः शिवशर्म्म-द्विजन्मनः। उडुलोककथा तस्मात्ततः शुक्रसमुद्भवः। महेशगुरुशौरीणां लोकानां वर्ण्णनं ततः। सप्तर्षीणांततोलोकाध्रुवस्य च तनस्तपः। ततोध्रुवपदप्राप्ति र्धुवलो-कस्थितिस्ततः। दर्शनं सत्यलोकस्य तस्य वै शिवशर्म्मणः। चतुर्भुजाभिषेकश्च निर्व्वाणं शिवशर्म्मणः। स्कन्धागस्त्यो-श्च संवादो मणिकर्ण्ण्याः समुद्भवः। ततस्तु गङ्गामाहात्म्यंततोदशहरास्तवः। प्रभावश्चापि गङ्गाया गङ्गानाम-सहस्रकम्। वाराणस्याः प्रशंसा च भैरवाविर्भवस्ततः। दण्डपाणेः समुद्भूतिर्ज्ञानवाप्युद्भवस्ततः। आख्यान-ञ्च कलावत्याः सदाचारस्ततः परम्। ब्रह्मचारिप्रक-रणं ततः स्त्रीलक्षणानि च। कृत्याकृत्यप्रकरणमवि-मुक्तेशवर्ण्णनम्। ततोगृहस्थधर्म्माश्च ततोयोगनिरू-पणम्। कालज्ञानं ततः प्रोक्तं दिवोदासस्य वर्ण्णनम्। काश्याश्च वर्ण्णनं तस्माद्योगिनीवर्ण्णनं ततः। लोलार्क-स्य समाख्यानमुत्तरार्ककथा ततः। शाम्बादित्यस्यमहिमा द्रुपदादित्यशंसनम्। ततस्तु गरुडाख्यानमरु-णार्कोदयःस्ततः। दशाश्वमेधिकं तीर्थं मन्दराच्च गणागमः। पिशाचमोचनाख्यानं गणेशप्रेषणं ततः। माया गणपतेश्चाथ ढुण्टिप्रादुर्भवस्ततः। विष्णुमायाप्रपञ्चोऽथदिवोदासविसर्ज्जनम्। ततः पञ्चनदोत्पत्तिर्विन्दु-माधवसम्भवः। ततोवैष्णवतीर्थानां माहात्म्यपरि-वर्ण्णनम्। प्रयाणं मन्दरात्काश्यां वृषभध्वजशूलिनः। जैगीषव्येण संवादो ज्येष्ठस्थाने महेशितुः। ततःक्षेत्ररहस्यस्य कथनं पापनाशनम्। अथातः कन्दुकेशस्यव्याघ्रेशस्य समुद्भवः। ततः शैलेश्वरकथा रत्नेशस्य चदर्शनम्। कृत्तिवासःसमुत्पत्तिस्ततश्चायतनागमः। देवता[Page2034-b+ 38] नामधिष्ठानं दुर्गासुरपराक्रमः। दुर्गाया विजयश्चाथतत ओङ्कारवर्ण्णनम्। पुनरोङ्कारमाहात्म्यं त्रिलो-चनसमुद्भवः। त्रिलोचनप्रभावोऽथ केदाराख्यानमे-व च। ततो धर्म्मेशमहिमा ततः पक्षिकथा शुभाः। ततो विश्वभुजाख्यानं दुर्द्दमस्य कथा ततः। ततोवीरेश्वरा-ख्यानं वीरेशमहिमा पुनः। गङ्गा तीर्थैश्च संयुक्ताकामेशमहिमा ततः। विश्वकर्म्मेशमहिमा दक्षयज्ञसमुद्भवः। सत्या देहविसर्गश्च ततोदक्षेश्वरोद्भवः। ततो वै पार्ब्ब-तीशस्य महिम्नः परिकीर्त्तनम्। गङ्गेशस्याथ महिमानर्मदेशसमुद्भवः। सतीश्वरसमुत्पत्तिरमृतेशादिवर्ण्णनम्। व्यासस्य हि भुजस्तम्भो व्यासशापविमोक्षणम्। क्षेत्रतीर्थ-कदम्बं च मुक्तिमण्डपसङ्कथा। विश्वेशाविर्भवश्चाथ ततोयात्रापरिक्रमः। एतदाख्यानशतकं क्रमेण परिकीर्त्तितम्”।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काशीखण्ड/ काशी--खण्ड n. = काशि-ख्.
