सामग्री पर जाएँ

काशीयात्रा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

काशीयात्रा¦ स्त्री

७ त॰। काशीस्थतीर्थेषु यात्रायाम् तत्प्रकारःकाशीख॰ दर्शतोयथा।
“श्रीवेदव्यास उवाच। निशामय महाप्राज्ञ! लोमहर्षण!वच्मि ते। यथा प्रथमतो यात्रा कर्त्तव्या यात्रिकैर्मुदा। सचेलमादौ संस्नाय चक्रपुष्करिणीजले। संतर्प्यदेवान् सपितॄन् ब्राह्मणांश्च तथार्थिनः। आदित्यं द्रौपदींविष्णुं दण्डपाणिं महेश्वरम्। नमस्कृत्य ततोगच्छेद्द्रष्टुंढुण्ढिविनायकम्। ज्ञानवापीमुपस्पृश्यनन्दिकेशं ततोऽर्च्च-येत्। तारकेशं ततोऽभ्यर्च्च्य महाकालेश्वरं ततः। ततःपुनर्दण्डपाणिरित्येषा पञ्चतीर्थिका। दैनन्दिनी विधातव्यामहाफलमभीप्सुभिः। ततो वैश्वेश्वरी यात्रा कार्य्या सर्व्वा-र्थसिद्धिदा। द्विसप्तायतनानाञ्च

१४ कार्य्या यात्रा प्रयत्नतः। कृष्णांप्रतिपदं प्राप्य भूतावधि यथाविधि। अथ वा प्रतिभूतञ्चक्षेत्रसिद्धिमभीप्सुभिः। तत्तत्तीर्थकृतस्नानस्तत्तल्लिङ्गकृता-र्च्चनः। मौनेन यात्रां कुर्वाणः फलं प्राप्नोति यात्रिकः। ओङ्कारं प्रथमं पश्येन्मत्स्योदर्य्यां कृतोदकः। त्रिपिष्टपंमहादेवं ततोवै कृत्तिवाससम्। रत्नेशं चाथ चन्द्रेशं केदा-रं च ततोव्रजेत्”। धर्म्मेश्वरं च वीरेशं गच्छेत् कामेश्वरं ततः। विश्वकर्म्मेश्वरं चाथ मणिकर्ण्णीश्वरं ततः। अविमुक्तेश्वरं-दृष्ट्वा ततोविश्वेशमर्च्चयेत्। एषा यात्रा प्रयत्नेन कर्त्तव्या-क्षेत्रवासिना। यस्तु क्षेत्रमुपित्वा तु नैतां यात्रां समाचरेत्। विघ्नास्तस्योपतिष्ठन्ते क्षेत्रोच्चाटनसूचकाः। अष्टायतनया-[Page2035-a+ 38] त्राऽन्या कर्त्तव्या विघ्नशान्तये। दक्षेशः पार्व्वतीशश्च तथापशुपतीश्वरः। गङ्गेशो नर्म्मदेशश्च गभस्तीशः सतीश्वरः। अष्टमस्तारकेशश्च प्रत्यष्टमि विशेषतः। दृश्यान्येतानि लि-ङ्गानि महापापोपशान्तये। अपरापि शुभा यात्रा योग-क्षेमकरी सदा। सर्व्वविघ्नोपहन्त्री च कर्त्तव्या क्षेत्रवा-सिभिः। शैलेशं प्रथमं वीक्ष्य वरणास्नानपूर्वकम्। स्नानं तु सङ्गमे कृत्वा द्रष्टव्यः सङ्गमेश्वरः। स्वर्लीनतीर्थे सुस्नातः पश्येत् स्वर्लीनमीश्वरम्। स्तात्वा मन्दा-किनीतीर्थे द्रष्टव्यो मध्यमेश्वरः। पश्येद्धिरण्यगर्भेशंतत्र तीर्ये कृतोदकः। मणिकर्ण्ण्यां ततः स्नात्वा पश्ये-दीशानमीश्वरम्। उपशान्तशिवं पश्येत् तत्कूपविहि-तोदकः। पञ्चचूडाह्रदे स्नात्वा ज्येष्ठस्थानं ततोऽ-र्च्चयेत्। चतुःसमुद्रकूपे तु स्नात्वा देवं समर्च्चयेत्। देवस्याग्रे तु या वापी तत्रोपस्पर्शने कृते। शुक्रेश्वरं ततःपश्येत् तत्कूपविहितोदकः। दण्डखाते ततः स्नात्वाव्याघ्रेशम्पूजयेत्ततः। शौनकेश्वरकुण्डे तु स्नानंकृत्वा ततोऽर्च्चयेत्। जम्बुकेशं महालिङ्गं कृत्वा यात्रा-मिमां नरः। क्वचिन्न जायते भूयः संसारे दुःस्वसागरे। समारभ्य प्रतिपदं यावत् कृष्णचतुर्दशीम्। एतत् क्र-मेण कर्त्तव्यान्येतदायतनानि वै। इमां यात्रां नरःकृत्वा न भूयोऽप्यभिजायते। अन्या यात्रा प्रकर्त्तव्यै-कादशायतनोद्भवा। अग्नीध्रकुण्डे सुस्नातः पश्येदग्नी-ध्रमीश्वरम्। उर्व्वशीशं ततो गच्छेत्ततस्तु नकुलीश्वरम्। आषाढीशं ततो दृष्ट्वा भारभूतेश्वरं ततः। लाङ्गली-शमथालोक्य ततस्तु त्रिपुरान्तकम्। ततो मनःप्रकाशेशंप्रतीकेशमथो व्रजेत्। मदालसेश्वरं तस्मात्तिलपर्णेश्वरंततः। तत्रैकादशलिङ्गानामेषा कार्य्या प्रयत्नतः। इमां यात्रां प्रकुर्व्वाणो रुद्रत्वं प्राप्तुयान्नरः। अतःपरंप्रवक्ष्यामि गौरीयात्रामनुत्तमाम्। शुकपक्षे तृतीयायांसा यात्रा विष्वगृद्धिदा। गोप्रेक्ष्यतीर्थे सुस्नाय सुखनि-र्भालिकां व्रजेत्। ज्येष्ठवाप्यां नरः स्नात्वा ज्येष्ठांगौरीं समर्चयेत्। सौभाग्यगौरी संपूज्या ज्ञानवाप्यांकृतोदकैः। ततः शृङ्गारगौरोञ्च तत्रैव च कृतोदकः। स्नात्वा विशालगङ्गायां विशालाक्षीं ततो व्रजेत्। सुस्नातो ललितातीर्थे ललितामर्चयेत्ततः। स्नात्वाभवानीतीर्थेऽथ भवानीं परिपूजयेत्। मङ्गला च त-तोऽभ्यर्च्च्या विन्दुतीर्थकृतोदकैः। ततो गच्छेन्महालक्ष्मींस्थिरलक्ष्मीसमृद्धये। इमां यात्रां नरः कृत्वा क्षेत्रेऽ-[Page2035-b+ 38] स्मिन् मुक्तिजन्मनि। न दुःखैरभिभूयेत इहामुत्रापिकुत्रचित्। कुर्य्यात् प्रतिचतुर्थीह यात्रां विश्वेशितुःसदा। व्रह्मणेभ्यस्तदुद्देशाद्देया वै मोदका मुदे। भौमे भैरवयात्रा च कार्य्या पातकहारिणी। रविवारेरवेर्यात्रा षष्ट्यां घा रविसंयुजि। तत्रैव रविसप्तम्यांसर्वविघ्नोपशान्तये। नवम्यामथ वाष्टम्यां चण्डीयात्राशुभावहा। अन्तर्गृहस्य वै यात्रा कर्त्तव्या प्रतिवत्स-रम्। प्रातः स्नानं विधायादौ नत्वा पञ्च विनायकान्। नमस्कृत्याथ विश्वेशं स्थित्वा निर्व्वाणमण्डपे। अन्तर्गृ-हस्य यात्रां वै करिष्येऽघौघशान्तये। गृहीत्वा नियमंचेति गत्वाथ मणिकर्ण्णिकाम्। स्नात्वा मौनेन चागत्यमणिकर्ण्णीशमर्चयेत्। कम्बलाश्वतरौ नत्वा वासुकीशम्प्र-णम्य च। पर्वतेशं ततो दृष्ट्वा गङ्गाकेशवमप्यथ। ततस्तु ललितां दृष्ट्वा जरासन्धेश्वरं ततः। ततोवै सोम-नाथञ्च वाराहञ्च ततो व्रजेत्। ब्रह्मेश्वरं ततो नत्वानत्वागस्तीश्वरं ततः। कश्यपेशं नमस्कृत्य हरिकेशवनंततः। वैद्यनाथं ततो दृष्ट्वा ध्रुवेशमथ वीक्ष्य च। गोक-र्णेश्वरमभ्यर्च्यहाटकेशमथो व्रजेत्। अस्थिक्षेपतडा-गेऽथ दृष्ट्वा वै कीकसेश्वरम्। भारभूतं ततोनत्वा चित्रगु-प्तेश्वरं ततः। चित्रघण्टां प्रणम्याथ ततः पशुपतीश्व-रम्। चन्द्रेशश्चाथ वीरेशो विद्येशोऽग्नीश एव च। दिवामहेश्वरं नत्वा ततस्तु कलसेश्वरम्। नागेश्वरो हरिश्चन्द्रश्चित्तामणिविनायकः। सेनाविना-यकश्चाथ द्रष्टव्यः सर्वविघ्नहृत्। वशिष्ठवामदेवौ चमूर्त्तिरूपधरावुभौ। द्रष्टव्यौ यत्नतः काश्यां महाविघ्नविनाशकौ। सीमाविनायकं चाथ करुणेशं ततोव्रजेत्। त्रिसन्ध्येशो विशालाक्षी धर्म्मेशो विश्वबाहुका। आशाविनायकश्चाथ वृद्धादित्यस्ततः पुनः। चतुर्वक्त्रे-श्वरं लिङ्गं ब्राह्मीशश्च ततः परम्। ततो मनःप्रकाशे-शं श्मशानेशस्ततः परम्। चण्डीचण्डीश्वरौ दृश्यौ-भवानीशङ्करौ ततः। ढुल्ढिं प्रणम्य च ततो राज-राजेशमर्चयेत्। लाङ्गलीशस्ततोऽभ्यर्च्यस्ततस्तु न-कुलीश्वरः। परान्नेशमथो नत्वा परद्रव्येश्वरं ततः। प्रतिग्रहेश्वरं चापि निष्कलङ्केशमेव च। मार्कण्डेये-शमभ्यर्च्य तत आप्सरसेश्वरम्। गङ्गेशोऽर्च्यस्ततो ज्ञान-वाप्यां स्नानं समाचरेत्। नन्दिकेशं तारकेश महा-कालेश्वरं ततः। दण्डपाणिं महेशञ्च मोक्षेशं प्रणमेत्ततः। वीरभद्रेश्वरं नत्वा अविमुक्तेश्वरं ततः। विना-[Page2036-a+ 38] यकांस्ततः पञ्च विश्वनाथं ततोव्रजेत्। ततो मौनंविसृज्याथ मन्त्रमेतमुदीरयेत्। अन्तर्गृहस्य यात्रेयंयथावद्या कृता मया। न्यूनातिरिक्तया शम्भुः प्रीयतामनया विभुः। इमं मन्त्रं समुच्चार्य्य क्षणं वै मुक्तिम-ण्डपे। विश्रम्य यायाद्भवनं निष्पापः पुण्यवान्नरः। संप्राप्य वासरं विष्णोर्विष्णुतीर्थेषु सर्व्वतः। कार्य्यायात्रा प्रयत्नेन महापुण्यसमृद्धये। नवम्यां पञ्चदश्यां चकुलस्तम्भं समर्चयेत्। दुःखरुद्रपिशाचत्वे न लभेद्यस्य पूजनात्। श्रद्धापूर्वमियं यात्रा कर्त्तव्या तीर्थवा-सिभिः। सर्वस्यापि विशेषेण कार्य्या यात्राश्च सर्व्वतः। न बन्ध्यं दिवसं कुर्य्याद्विना यात्रां क्वचित् कृती। यात्रा-द्वयं प्रयत्नेन कर्त्तव्यं प्रतिवासरम्। आदौ स्वर्गतर-ङ्गिण्यास्ततो विश्वेशितुःस्तवम्। यस्य बन्ध्यं दिनं यातंकाश्यां निवसतः सतः। निराशाः पितरस्तस्य तस्मि-न्नेव दिनेऽभवन्। सदष्टः कालसर्पेण स दृष्टो मृत्युना-स्फुटम्। स मुष्टस्तत्र दिवसे विश्वेशो यत्र नेक्षितः। सर्व्वतीर्थेषु सस्नौ स सर्वयात्रां व्यधात् स च। मणि-कर्ण्यां तु यः स्नातो यो विश्वेशं निरैक्षत। सत्यं सत्यंपुनः सत्यं सत्यं सत्यं पुनः पुनः। दृश्योविश्वे-श्वरो नित्यं स्नातव्या मणिकर्ण्णिका”।

"https://sa.wiktionary.org/w/index.php?title=काशीयात्रा&oldid=275772" इत्यस्माद् प्रतिप्राप्तम्