काश्मरी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काश्मरी, स्त्री, (काशते इति । “अनेभ्योऽपि” । ३ । २ । ७५ । इति वनिप् “वनोरच” । ४ । १ । ७ । इति ङीव्रौ । पृषोदरात् वस्य मत्वम् ।) गम्भारी- वृक्षः । इत्यमरः । २ । ४ । ३५ ॥ (अस्याः पर्य्याया यथा, -- “गम्भारी भद्रपर्णी च श्रीपर्णी मधुपर्णिका ॥ काश्मीरी काश्मरी हीरा काश्मर्य्यः पीतरोहिणी । कृष्णवृन्ता मधुरसा महाकुसुमिकापि च” ॥ इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ गुणा- श्चास्या यथात्रैव ॥ “काश्मरी तु वरा तिक्ता वीर्य्योष्णा मधुरा गुरुः । दीपनी पाचनी मेध्या भेदिनी भ्रमशोषजित् ॥ दोषतृष्णाऽमशूलार्शोविषदाहज्वरापहा । तत्फलं वृंहणं वृष्यं गुरुकेश्यं रसायनम् ॥ वातपित्ततृषारक्तक्षयमूत्रविवन्धनुत् । स्वादु पाके हिमं स्निग्धं तुवराम्लविशुद्धिकृत् ॥ हन्याद्दाहतृषावातरक्तपित्तक्षयान् तथा” ॥ * ॥ यथा, महाभारते ३ । १५८ । ४४ । “विल्वान् कपित्थान् जम्बूंश्च काश्मरीर्बदरीस्तथा” ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काश्मरी स्त्री।
काश्मरीवृक्षः
समानार्थक:गम्भारी,सर्वतोभद्रा,काश्मरी,मधुपर्णिका,श्रीपर्णी,भद्रपर्णी,काश्मर्य
2।4।35।2।3
राजादनं प्रियालः स्यात्सन्नकद्रुर्धनुःपटः। गम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका॥
पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काश्म(श्व)री¦ स्त्री काश--वनिप् वनोरच नश्चान्तादेशः पृषो॰वा वस्य मः। गाम्भार्य्याम् अमरः, फलेऽपि हरीत॰अणोलुपि स्त्री। ॰
“विल्वान् कपिलत्थान् जम्बूश्च काश्म-रीर्वदरीस्तथा” भा॰ व॰
१५
८ अ॰।
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काश्मरी [kāśmarī], (also काश्मर्यः -यम्) A plant commonly called गाम्भारी; Rām.2.94.9. काश्मर्याः कृतमालमुद्गतदलं कोयष्टिकष्टीकते Māl.9.7. The word appears sometimes as कार्श्मरी.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काश्मरी f. the plant Gmelina arborea ( गम्भारी) MBh. R. Sus3r. Ma1lati1m.