काश्मर्य्य
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काश्मर्य्यः, पुं, (काश्मरीति शब्दोऽस्त्यस्य अस्मिन् वा । अन्येभ्योपीति यप् । स्वार्थे ष्यञ् इति केचित् ।) गम्भारी । इत्यमरः । २ । ४ । ३६ ॥ क्लीवलिङ्गो- ऽप्ययम् । इति भरतः ॥ (“हृद्यं मूत्रविवन्धघ्नं पित्तासृग्वातनाशनम् । केश्यं रसायनं मेध्यं काश्मर्य्यं फलमुच्यते” ॥ इति सुश्रुते सूत्रस्थाने । ४६ अध्यायः ॥)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काश्मर्य्य¦ पु॰ काश्मरी + स्वार्थे ष्यञ्। गाम्भार्य्याम् अमरः
“वदरेङ्गुदकाश्मर्य्यभल्लातकफलानि च” भा॰ आनु॰
५३
० । अयञ्च मधुरवर्गे पियालवीजकाश्मर्य्येत्याद्युपक्रमे
“समा-सेन सषुरोवर्गः” सुश्रुते उक्तः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
काश्मर्य्य¦ mn. (-र्य्य-र्य्यं) Gambhari, a plant: see the preceding. E. यत् added to काश्मरी।