सामग्री पर जाएँ

कासः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कासः, पुं, (कासतेऽनेन । कासृ शब्दकुत्सनयोः । “हलश्च” ३ । ३ । १२१ । इति घञ् ।) रोगविशेषः । कासी इति भाषा । तत्पर्य्यायः । क्षवथुः २ । इत्यमरः । २ । ६ । ५२ ॥ तस्य निदानं यथा, -- “धूमोपघाताद्रजसस्तथैव व्यायामरूक्षान्ननिषेवणाच्च । विमार्गगत्वाच्च हि भोजनस्य वेगावरोधात् क्षवथोस्तथैव” ॥ सम्प्राप्तिर्यया । “प्राणो ह्युदानानुगतः प्रदुष्टः” ॥ लक्षणं यथा । “संभिन्नकांस्यस्वनतुल्यघोषः । निरेति वक्त्रात् सहसा सदोषो मनीषिभिः कास इति प्रदिष्टः” ॥ स च पञ्चविधो यथा, -- “पञ्च कासाः स्मृता वातपित्तश्लेष्मक्षतक्षयैः । क्षयायोपेक्षिताः सर्व्वे बलिनश्चोत्तरोत्तरम्” ॥ तेषां पूर्ब्बरूपं यथा, -- “पूर्ब्बरूपं भवेत्तेषां शूकपूर्णगलास्यता । कण्ठे कण्डूश्च भोज्यानामवरोधश्च जायते” ॥ वातिको यथा, -- “हृच्छङ्खमूर्द्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः । प्रसक्तदेगस्तु समीरणेन भिन्नस्वरः कासति शुष्कमेव” ॥ पैत्तिको यथा, -- “उरोविदाहज्वरवक्त्रशोषै- रभ्यर्द्दितस्तिक्तमुखस्तृषार्त्तः । पित्तेन पीतानि वमेत् कटूनि कासेत् सपाण्डुः परिदह्यमानः” ॥ श्लैष्मिको यथा, -- “प्रलिप्यमानेन मुखेन सीदन् शिरोरुजार्त्तः कफपूर्णदेहः । अमक्तरुग्गौरवसादयुक्तः कासेद्भृशं सान्द्रकफः कफेन” ॥ क्षतजो यथा, -- “अतिव्यवायभाराध्वयुद्धाश्वगजविग्रहैः । रूक्षस्योरः क्षतं वायुर्गृहीत्वा कासमावहेत् ॥ स पूर्ब्बं कासते शुष्कं ततः ष्ठीवेत् सशोणितम् । कफं शुद्धैश्च तःपुष्टिं कुर्य्यात्सम्यग्वहन् रसः । चविकात्रिफलाभार्गी दशमूलः स चित्रकैः ॥ कुलत्थपिप्पलीमूलपाठाकालयवैर्जले । शृतैर्नागरदुस्पर्शा पिप्पलीशठिपौष्करैः ॥ पिष्टैः कर्कटशृङ्ग्या च समैः सर्पिर्विपाचयेत् । सिद्धेऽस्मिंश्चूर्णितौ क्षारौ द्वौ पञ्च लवणानि च ॥ दत्त्वा युक्त्यापिबेन्मात्रां क्षयकासनिपीडितः । कासमर्द्दोऽभयामुस्तापाठाकट्फलनागरैः ॥ पिप्पल्या कटुरोहिण्या काश्मर्य्याः स्वरसेन च । अक्षमात्रैर्घृतप्रस्थं क्षीरद्राक्षा रसाढके ॥ पचेच्छोषज्वरप्लीहसर्व्वकासहरं शिवम्” ॥ * ॥ “वृषव्याघ्री गुडूचीनां पञ्चमूलफलाङ्कुरान् ॥ रसकल्कैर्घृतं पक्वं हन्ति कासज्वरारुचीः” । “स्युर्दोषबद्धः कण्ठोरः स्रोतसाञ्च विशुद्धये ॥ प्रस्थोन्मिते यवक्वाथे विंशतिर्विजयाः पचेत् । स्विन्नामृदित्वा तास्तस्मिन् पुराणात्षट्पलं गुडात् ॥ पिप्पल्या द्विपलं कर्षं मनोह्वाया रसाञ्जनात् । दत्त्वार्द्धाक्षं पचेद्भूयः सलेहः श्वासकासनुत्” ॥ “तद्वन्मरि चचूर्णं वा सघृतक्षौद्रशर्करम् । पथ्याशुण्ठी घनगुडैर्गुटिकां धारयेन्मुखे ॥ सर्व्वेषु श्वासकासेषु केवलं वा विभीतकम् । पत्रकल्कं घृतभृष्टं तिल्वकस्य सशर्करम् ॥ पेयावोत्कारिकाच्छर्द्दितृट्कासामातिसारनुत् । कण्टकारीरसे सिद्धो मुद्गयूषः सुसंस्कृतः ॥ स गौरामलकः साम्लः सर्व्वक्वासभिषग्जितम् ॥ वातघ्नौषधनिःक्वाथे क्षीरं यूषान् रसानपि । वैष्किरान् प्रातुदान् वैलान् दापयेत् क्षयकासिने ॥ क्षतकासे च येधूमाः सानुपानानि दर्शिताः । क्षयकाशेऽपि ते योज्या वक्ष्यन्ते यच्च यक्ष्मणि ॥ वृंहणं दीपनञ्चाग्नेः स्रोतसाञ्च विशोधनम् । व्यत्यासात्क्षयकासिभ्यो बल्यं सर्व्वं प्रशस्यते ॥ सन्निपातोद्भवो घोरः क्षयकासो यतस्ततः । यथादोषबलन्तस्य सन्निपातहितं हितम्” ॥ इति वाभटे चिकित्सास्थाने ३ अध्याये ॥ * ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कासः [kāsḥ] सा [sā], सा [कास्-घञ्]

Cough, catarrh. मुञ्च शीपेक्त्था उत कास एनम् Av.1.12.3; कासश्वासकृतायासः कण्ठे घुरघुरायते Bhāg.3.3.16.

Sneezing. -Comp. -कुण्ठ a. affected with cough. (-ण्ठः) an epithet of Yama.-घ्न, -हृत् a. removing cough, pectoral. (-घ्नः) a medical plant (Mar. बेहडा) (-घ्नी) a sort of prickly nightshade, Solanum Jacquini (Mar. रिंगणी). -नाशिनी N. of medicinal plant.

मर्दः a cure of cough.

an acid preparation (कासुंदी).

"https://sa.wiktionary.org/w/index.php?title=कासः&oldid=276254" इत्यस्माद् प्रतिप्राप्तम्