सामग्री पर जाएँ

कासमर्द्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कासमर्द्दः, पुं, (कासं मृद्गाति । कास + मृद् + “कर्म्म- ण्यण्” । ३ । २ । १ । इति अण् ।) पेषितजल मिश्रितवस्त्रगलितवेसवारः । इति पाकराजेश्वरः ॥ कासुन्दी इति ख्यातः । गुल्मभेदः । इत्यमरभरतौ ॥ काल कासुन्दा इति भाषा ॥ शेषस्य पर्य्यायः । अरिमर्द्दः २ कासारिः ३ कासमर्द्दकः ४ कालः ५ कनकः ६ जरणः ७ दीपनः ८ अस्य गुणाः । तिक्तत्वम् । उष्णत्वम् । मधुरत्वम् । कफवाता- जीर्णकासपित्तनाशित्वम् । पाचकत्वम् । कण्ठ- शोधनत्वञ्च । इति राजनिर्घण्टः ॥ अग्निदीपन- त्वम् । स्वादुत्वञ्च । इति राजवल्लभः ॥ अस्य पत्र- गुणाः । रुचिकारित्वम् । शुक्रवर्द्धकत्वम् । कास- विषरक्तकफवातपित्तनाशित्वम् । मधुरत्वम् । पा- चनत्वम् । कण्ठशोधनत्वम् । लधुत्वम् । विशेषतः कासहरत्वम् । ग्राहकत्वञ्च । इति राजनिर्घण्टः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कासमर्द्द¦ पु॰ कासं मृद्नाति मृद--अण् उप॰ स॰। काल-कासेन्दा) वृक्षे तद्गुणाद्युक्तं भावप्र॰ यथा
“कासमर्द्दोऽ-रिमर्द्दश्च कासारिः कर्कशस्तथा। कासमर्द्ददलं रुच्यंवृष्यं कासविषास्रनुत्। मधुरं कफवातघ्नं पाटनं कण्ठ-शोधनम्। विशेषतः कासहरं पित्तघ्नं ग्राहकं लघु”। सुश्रुतेऽयं सुरसादिगणे पठितः सुरसादिशब्दे विवृतिः। कस्य जलस्यासेन क्षेपेण मृद्यतेऽसौ मृद--कर्म्मणि घञ्वेशवारभेदे स च पिष्टजलमिश्रितवस्त्रगालितवेसावारइति पाकराजेश्वरः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

कासमर्द्द¦ m. (-र्द्दः)
1. A plant, (Cassia or Senna esculenta.)
2. An acid preparation, a mixture of tamarinds and mustard. E. कास or काश cough, and मर्द्द what destroys; also काशमर्द्द।

"https://sa.wiktionary.org/w/index.php?title=कासमर्द्द&oldid=276296" इत्यस्माद् प्रतिप्राप्तम्