कासालुः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कासालुः, पुं, (कासहेतुः कासजनको वा आलुः ।) कन्दविशेषः । कोकणदेशे प्रसिद्ध आलुविशेषः । तत्पर्य्यायः । कासकन्दः २ कन्दालुः ३ आलुकः ४ आलुः ५ विशालपत्रः ६ पत्रालुः ७ । अस्य गुणाः । उग्रत्वम् । कण्डुवातश्लेष्मामयारोचक- नाशित्वम् । स्वादुत्वम् । पथ्यत्वम् । अग्निदीपन- त्वञ्च । इति राजनिर्घण्टः ॥
