किंशुकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किंशुकः, पुं, (किञ्चित् अवयवैकदेशः शुक इव शुक- तुण्डाभपुष्पत्वात् तथात्वमिति बोध्यम् ।) पलाश- वृक्षः । इत्यमरः । २ । ४ । २९ ॥ (अस्य पर्य्यायो यथा, -- भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “पलाशः किंशुकः पर्णो यज्ञियो रक्तपुष्पकः । क्षारश्रेष्ठो वातहरो ब्रह्मवृक्षः समिद्वरः” ॥ यथा गोः रामायणे ६ । ६८ । ३१ । “तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः । पुष्पिताविव निष्पत्रौ यथा शाल्मलिकिंशुकौ” ॥ तत्पुष्पादयोऽपि । यथा चाणक्ये ७ । “रूपयौवनसम्पन्ना विशालकुलसम्भवाः । विद्याहीनान शोभन्ते निर्गन्धा इव किंशुकाः” ॥) विवरणमस्यान्यत् पलाशशब्दे ज्ञातव्यम् ॥ नन्दी वृक्षः । इति राजनिर्घण्टः ॥
