सामग्री पर जाएँ

किकीदिविः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

किकीदिविः, पुं, (किकी इति अस्फुटनादं कुर्व्वन् दीव्यति । “कृविधृष्विच्छविस्थवि किकीदिविः” । उणां ४ । ५६ इति क्विन् निपातनात् सिद्धम् ।) स्वर्णत्तातकः । सोणाचडा इति भाषा । नीलकण्ठ इति क्वचित् ख्यातः । इति भरतः ॥ तत्पर्य्यायः । चाषः २ । इत्यमरः । २ । ५ । १६ ॥ चासः ३ किकीदीविः ४ । इति भरतः ॥ किकी ५ दिविः ६ । इति स्वामी ॥ किकिः ७ किकिदिवः ८ किकिदीविः ९ । इति शब्दमाला ॥ किकीदिवः १० स्वर्ण- चूडः ११ इति जटाधरः ॥

"https://sa.wiktionary.org/w/index.php?title=किकीदिविः&oldid=126800" इत्यस्माद् प्रतिप्राप्तम्