किञ्जल्क
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किञ्जल्कम्, क्ली, (किञ्चित् जलति । जल् अपवारणे + बाहुलकात् कः ।) नागकेशरपुष्पम् । पद्मा- भ्यन्तरस्थं केशाकारं करहाटकवेष्ठनम् । केसर इति ख्यातम् । (यथा, रघुः १५ । ५२ । “स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कमिव पङ्कजम् । ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत्” ॥) तत्पर्य्यायः । मकरन्दम् २ किशरम् ३ पद्मकेशरम् ४ किञ्जम् ५ पीतपरागम् ६ तुङ्गम् ७ चाम्पे- यकम् ८ । अस्य गुणाः । मधुरत्वम् । रूक्षत्वम् । कटुत्वम् । आस्यब्रणापहत्वम् । शिशिरत्वम् । रुच्यत्वम् । पित्ततृष्णादाहविनाशित्वञ्च । इति राजनिर्घण्टः ।
किञ्जल्कः, पुं, (किम् + जल + बाहुलकात् कः ।) केशरः । इत्यमरः । १ । १० । ४७ ॥ पद्मकेशरः । तत्पर्य्यायगुणाः । “किञ्जल्कः केशरः प्रोक्तश्चाम्पेयश्चापि स स्मृतः । किञ्जल्कः शीतलो रूक्षः कषायोग्राहकोऽपि सः ॥ कफपिंत्ततृषादाहरक्तार्शोविषशोथजित्” । इति भावप्रकाशः । (वैद्यचक्रपाणिसंग्रहे रक्त पित्ताधिकारे दूर्व्वाद्यतैले व्यवहारो यथा, -- “दूर्व्वासोत्पलकिञ्जल्कमञ्चिष्ठासैलवालुकाः” ॥)
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किञ्जल्क पुं।
पद्मकेसरः
समानार्थक:किञ्जल्क,केसर
1।10।43।1।3
करहाटः शिफाकन्दः किञ्जल्कः केसरोऽस्त्रियाम्. संवर्तिका नवदलं बीजकोशो वराटकः॥
पदार्थ-विभागः : अवयवः
किञ्जल्क पुं।
पुष्परेणुः
समानार्थक:पराग,सुमनोरज,किञ्जल्क,पराग,पक्ष्मन्
3।3।17।9।1
स्याद्दाम्भिकः कौक्कुटिको यश्चादूरेरितेक्षणः। ललाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः॥ भूभृन्नितम्बवलयचक्रेषु कटकोऽस्त्रियाम्. सूच्यग्रे क्षुद्रशत्रौ च रोमहर्षे च कण्टकः। पाकौ पक्तिशिशू मध्यरत्ने नेतरि नायकः। पर्यङ्कः स्यात्परिकरे स्याद्व्याघ्रेऽपि च लुब्धकः। पेटकस्त्रिषु वृन्देऽपि गुरौ देश्ये च देशिकः। खेटकौ ग्रामफलकौ धीवरेऽपिच जालिकः। पुष्परेणौ च किञ्जल्कः शुल्कोऽस्त्री स्त्रीधनेऽपि च। स्यात्कल्लोलेऽप्युत्कलिका वार्धकं भाववृन्दयोः। करिण्यां चापि गणिका दारकौ बालभेदकौ। अन्धेऽप्यनेडमूकः स्याट्टङ्कौ दर्पाश्मदारणौ। मृद्भाण्डेऽप्युष्ट्रिका मन्थे खजको रसदर्वके॥
पदार्थ-विभागः : अवयवः
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किञ्जल्क¦ पु॰ किञ्चित् जलति जल--अपवारणे क तस्य नेत्त्वम्। पुष्पादेः
१ केशरे,
२ पुष्परेणौ,
३ नागकेशरे च मेदि॰ पद्ममध्य-स्थे केशाकारे पदार्थे।
“केचित् किञ्जल्कसङ्काशाः केचित्पीताः पयोधराः” भा॰ व॰
१८
८ अ॰।
“पद्मोदरच्युतरजःकिञ्जल्कारुणतां गतैः” भा॰ व॰
१५
८ अ॰
“किञ्जल्किनींददौ चार्ब्धिमालामम्लानपङ्कजाम्” देवीमा अमरे पुंस्त्वंजटाधरे क्लीवतेत्युभयलिङ्गता तद्गुणादिकं भावप्र॰उक्तं
“किञ्जल्कः शीतलोरूक्षः कषायो ग्राह-कोऽपि सः। कफपित्तवृषानाहरक्तार्शोविषशोथजित्” तत्र पुष्पकेशरे
“हिरण्यस्रजोयाजयेयुः वज्रकिञ्जल्काःशतपुष्करा होतुः” आ॰ श्रौ॰
९ ,
४ ,
५
“वज्रैःकृतकिञ्जल्काःकृतकेशरा” होतुः स्रजःकार्य्याः नारा॰
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किञ्जल्क¦ m. (-ल्कः) The filament of a lotus, great numbers of which sur- round the pericarp. n. (-ल्कं) The flower of the Mesua ferrea. E. किञ्चित् somewhat, जक् to hide or cover, क affix, and the form irr.
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किञ्जल्क mn. (or किं-ज्; g. किंशुका-दि)the filament of a plant (especially of a lotus) A1s3vS3r. MBh. R. etc.
किञ्जल्क n. the flower of Mesua ferrea L.