किञ्जल्कः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किञ्जल्कः, पुं, (किम् + जल + बाहुलकात् कः ।) केशरः । इत्यमरः । १ । १० । ४७ ॥ पद्मकेशरः । तत्पर्य्यायगुणाः । “किञ्जल्कः केशरः प्रोक्तश्चाम्पेयश्चापि स स्मृतः । किञ्जल्कः शीतलो रूक्षः कषायोग्राहकोऽपि सः ॥ कफपिंत्ततृषादाहरक्तार्शोविषशोथजित्” । इति भावप्रकाशः । (वैद्यचक्रपाणिसंग्रहे रक्त पित्ताधिकारे दूर्व्वाद्यतैले व्यवहारो यथा, -- “दूर्व्वासोत्पलकिञ्जल्कमञ्चिष्ठासैलवालुकाः” ॥)
