किञ्जल्कम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किञ्जल्कम्, क्ली, (किञ्चित् जलति । जल् अपवारणे + बाहुलकात् कः ।) नागकेशरपुष्पम् । पद्मा- भ्यन्तरस्थं केशाकारं करहाटकवेष्ठनम् । केसर इति ख्यातम् । (यथा, रघुः १५ । ५२ । “स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कमिव पङ्कजम् । ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत्” ॥) तत्पर्य्यायः । मकरन्दम् २ किशरम् ३ पद्मकेशरम् ४ किञ्जम् ५ पीतपरागम् ६ तुङ्गम् ७ चाम्पे- यकम् ८ । अस्य गुणाः । मधुरत्वम् । रूक्षत्वम् । कटुत्वम् । आस्यब्रणापहत्वम् । शिशिरत्वम् । रुच्यत्वम् । पित्ततृष्णादाहविनाशित्वञ्च । इति राजनिर्घण्टः ।
