कितवः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कितवः, पुं, (कितं वायति कितेन वाति वा । कित + वा + कः ।) अक्षदेवी । (यथा, मनुः । ३ । १५१ । “जटिलञ्चानधीयानं दुर्ब्बलं कितवन्तथा । याजयन्ति च ये पूगांस्तांश्च श्राद्धे न भोजयेत्” ॥) धुस्तूरः । इत्यमरः । २ । ४ । ७७ ॥ (“कितवाडशयोर्वीजं नागरं सहरीतकम् । चूर्णीकृत्यार्द्रकरसैः” ॥ इति वैद्यककषायसंग्रहे कासाधिकारे शाम्भरीगुडिकायाम् ॥) मत्तः । वञ्चकः । इति मेदिनी ॥ (यथा, भागवते । ८ । २० । ३ । “स चाहं वित्तलोभेन प्रत्याचक्षे कथं द्विजम् । प्रतिश्रुत्य ददामीति प्राह्रादिः कितवो यथा” ॥ धूर्त्तः । यथा, आर्य्यासप्तशती ३३ । “अस्थिररागः कितवो मानी चपलो विदूषकस्त्व- मसि । मम सख्याः पतसि करे पश्यामि यथा ऋजुर्भवसि” ॥) खलः । इति शब्दरत्नावली ॥ (यथा महाभारते । १ । १ । १५६ । “यदाश्रौषं वाससां तत्र राशिं समाक्षिपत् कितवो मन्दबुद्धिः” ॥) रोचननामगन्धद्रव्यम् । इति जटाधरः राज- निर्घण्टश्च ॥
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
कितवः [kitavḥ], (-वी f.)
A rogue, liar, cheat; अर्हति किल कितव उपद्रवम् M.4; Amaru.2,46; Me.113.
The Dhattūra plant.
A kind of perfume (commonly रोचन).
A gamester, gambler; Ms.3.159.
A mad or crazy person.
