किन्नरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किन्नरः, पुं, स्त्री, (किं कुत्सितो नरः । अश्वमुखत्वा त्तथात्वम् ।) स्वनामख्यातदेवयोनिः । स तु अश्वमुखत्वात् कुत्सितनरः स्वर्गगायकः तुम्बुरु- प्रभृतिः । तत्पर्य्यायः । किम्पुरुषः २ तुरङ्गवदनः ३ मयुः ४ । इत्यमरः । १ । १ । ७४ ॥ अश्वमुखः ५ गीतमोदी ६ हरिणनर्त्तकः ७ । इति शब्दरत्नावली ॥ (यथा, -- “राक्षसाश्च पुलस्त्यस्य वानराः किन्नरास्तथा । यक्षाश्च मनुजव्याघ्र ! पुत्त्रास्तस्य च धीमतः” ॥ इति महाभाते । १ । ६६ । ७ ॥) अर्हदुपासकविशेषः ॥ इति हेमचन्द्रः ॥
