सामग्री पर जाएँ

किमिच्छक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

किमिच्छकः, पुं, (किमिच्छसीति प्रश्नेन दानार्थं का- यति शब्दायतेऽत्र । निपातनात् साधुः ।) व्रत- विशेषः । तद्विवरणं यथा, -- मार्कण्डेय उवाच । “अथ साऽवीक्षितो माता वीरा वीरप्रजावती । पुण्येऽहनि समाहूय प्राह पुत्त्रमवीक्षितम् ॥ पुत्त्राहमभ्यनुज्ञाता तव पित्रा महात्मना । उपवासं करिष्यामि दुष्करोऽयं किमिच्छकः ॥ स चायत्तस्तव पितुस्त्वया साध्यो मयापि वा । प्रतिज्ञाते त्वया पुत्त्र ! ततस्तत्र यताम्यहम् ॥ द्रव्यस्यार्द्धं महाकोषात् तव दास्याम्यहं पितुः । धनं ते पितुरायत्तमनुज्ञातास्मि तेन च ॥ क्लेशसाध्यो ममायत्तः स हि श्रेयो भविष्यति । साध्यो भविष्यो यदि ते कश्चिद्बलपराक्रमैः ॥ स ते साध्योऽन्यथा वापि दुःखसाध्यो भविष्यति । तत्त्वं प्रतिज्ञां कुरुषे यदि पुत्त्रात्र वै व्रते ॥ तदेतदहमारप्म्ये कथ्यतां यन्मतं तव । अवीक्षिदुवाच । वित्तं मे पितुरायत्तं ममेशत्वं न तत्र वै । यन्मच्छरीरनिष्पाद्यं तत् करिष्ये त्वयोदितम् ॥ किमिच्छकं व्रतं मातर्निश्चित्य भव निर्व्यथा । राज्ञा पित्राभ्यनुज्ञातं यदि वित्तेश्वरेण मे ॥ नान्यत् प्रार्थयते किञ्चित् तदा पुत्त्रोऽब्रीत् पुनः ॥ दत्त्वा किमिच्छकं तुभ्यं प्राप्तोऽहं तात ! सङ्कटम् । तत् करिष्यामि निर्लज्जोभूयो दारपरिग्रहम् ॥ स्त्रियाः समक्षं विजितः पतितो धरणीतले । स्त्रीपतिर्भविता भूयस्तातैतदतिदुष्करम् ॥ तथापि किं करोम्येष सत्यपाशवशङ्गतः । करिष्यामि यथात्थ त्वं भुज्यतां निजशासनम्” ॥ इति श्रीमार्कण्डेयपुराणे अवीक्षिच्चरितनामा- ध्यायः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

किमिच्छक¦ त्रि॰ किमिच्छसि किमिच्छसीति पृच्छति पृषो॰। किमिच्छसि किमिच्छसीति प्रश्नकारके भोजनाद्यर्थमाह्वा-नाय नियुक्ते

१ भृत्यादौ।
“सुमनोमोदकै रत्नैर्हिरण्येनच भूरिणा। गोभिर्वस्त्रैश्च राजेन्द्र! विविधैश्चकिमिच्छकैः” भा॰ शा॰

३८
“किमिच्छसि किमिच्छसीतिप्रश्नकारकैर्भृत्यैःविविधैर्गोवस्त्रादिभिर्निमन्त्रयद्भिः” नीलक॰। किमिच्छसीतिप्रश्चेन दानार्थं कायति शब्दायतेऽत्र पृषो॰।

२ मार्कण्डेयपु-राणीक्ते व्रतभेदे पु॰ तद्व्रते हि
“पुरोहितस्य वीराया-(तन्नामराजमहिष्याः) वदतोऽर्थिजनं प्रति। कः किमि-च्छति दुःसाध्यम् कार्य्यं किंसाध्यतामिति। करन्धमस्यमहिषी किमिच्छकमुपोषिता। राजपुत्रोऽप्यविक्षित्तु श्रुत्वापौरोहितं वचः। प्रत्युवाचार्थिनः सर्व्वान् राजद्वारमु-पागतान्। मया साध्यं शरीरेण कार्य्यं किञ्चित् ब्रवीतुमे। मम माता महाभागा किमिच्छकमुपोषिता। शृण्वन्तुमेऽर्थिनः सर्व्वे प्रतिज्ञातं मयात्र वै। किमिच्छथ ददाम्येवंक्रियमाणे किमिच्छके” अर्थिनोऽभिलाषानुरूपदानार्थकेच्छाप्रश्नपूर्व्वकं तद्दानं विहितमिति तस्य तथात्वम्।

३ इच्छाविषयप्रश्नपूर्व्वकेष्टेच्छानुरूपदेयमात्रेऽपि
“प्रतिश्रयान् सभाः कूपान् प्रपाः पुष्करिणीस्तथा। नैत्यकानिच सर्व्वाणि किमिच्छकमतीव च” भा॰ शा॰

६६

८५ श्लो॰

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

किमिच्छक/ किम्--इच्छक n. what one wishes or desires , anything desired MBh. xii , xiii

किमिच्छक/ किम्--इच्छक m. N. of a particular form of austerity (by which any object is obtained) Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=किमिच्छक&oldid=277287" इत्यस्माद् प्रतिप्राप्तम्