किम्

विकिशब्दकोशः तः

किम्ं

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किम्, व्य, किम् । इति मेदिनी ॥ (यथा विष्णुपुराणे १ मांशे १७ । २४ । “न केवलं तात ! मम प्रजानां स ब्रह्मभूतो भवतश्च विष्णुः । धाता विधाता परमेश्वरश्च प्रसीद कोपं कुरुषे किमर्थम्” ॥)

किम्, [म्] त्रि, जिज्ञासार्थम् । कि इति भाषा । सर्व्वनामकिम्शब्दस्य क्लीवलिङ्गे रूपमिदम् । इति व्याकरणम् ॥ अस्यार्थान्तराणि किम्शब्दे द्रष्ट- व्यानि ॥ (सर्व्वशब्दमयत्वात् विष्णुः । यथा, महा- भारते १३ । १४९ । ९१ । “एको नैकः सवः कः किं यत्तत्पदमनुत्तमम्” ॥)

किम्, व्य, (कु + बाहुलकात् डिम् ।) कुत्सा । (यथा गोः रामायणे । १ । २२ । २१ । “देवदानवगन्धर्व्वा यक्षाः पतगपन्नगाः । न शक्ता रावणं सोढुं किं पुनर्मानवा युधि” ॥) वितर्कः । (यथा, हितोपेदेशे । “किमनुरक्तो विरक्तो वा मयि स्वामीति ज्ञा- स्यामि तावत्” ॥) निषेधः । प्रश्नः । इतिमेदिनी ॥

किम्, त्रि, क्षेपः । वितर्कः । निन्दा । परिप्रश्नः । इति मेदिनी ॥ (यथा, मनुः ११ । १९५ । “प्रणतं परिपृच्छेयुः साम्यं सौम्येच्छसीति किम्” ॥ किमपि अनिर्व्वचनीयम् । यथा, विष्णुपुराणे १ । १९ । ७५ । “तस्माच्च सूक्ष्मादिविशेषाणां अगोचरे यत् परमात्मरूपम् । किमप्यचिन्त्यं तव रूपमस्ति तस्मै नमस्ते पुरुषोत्तमाय” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किम् अव्य।

जुगुप्सनम्

समानार्थक:अर्तन,ऋतीया,हृणीया,घृणा,किम्

3।3।252।1।2

तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने। नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने॥

पदार्थ-विभागः : , क्रिया

किम् अव्य।

प्रश्नः

समानार्थक:प्रश्न,अनुयोग,पृच्छा,स्वित्,उत,अथो,अथ,नु,ननु,अपि,किम्,ऊम्

3।3।252।1।2

तूष्णीमर्थे सुखे जोषं किं पृच्छायां जुगुप्सने। नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने॥

 : दुर्विज्ञानार्थः_प्रश्नः, अद्भुतप्रश्नः, परिप्रश्नः

पदार्थ-विभागः : , गुणः, शब्दः

किम् अव्य।

विकल्पनम्

समानार्थक:आहो,उताहो,किमुत,किम्,किमु,उत

3।4।5।1।4

आहो उताहो किमुत विकल्पे किं किमूत च। तु हि च स्म ह वै पादपूरणे पूजने स्वति॥

पदार्थ-विभागः : , गुणः, बुद्धिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किम्¦ त्रि॰ कु--शब्दे बा॰ डिमु।

१ कुत्सिते

२ जिज्ञासिते

३ वितर्क-विषये।

४ कुत्सायां

५ गर्हणे

६ वितर्के

७ प्रश्ने

८ सादृश्ये,(प्रकारे)

९ करणे च अव्य॰ जटा॰

१० ईषदर्थे

११ अति-शये गणरत्नम्। तत्र त्रिलिङ्गस्य सर्व्वनामता केकस्मै इत्यादि
“के यूयं स्थल एव संप्रति वयं प्रश्नोविशे-षाश्रयः” सा॰ द॰।
“कस्मै नाथ! समर्प्य कैरवकुलं व्योमा-न्तमालम्बसे” उद्भटः।
“केषां नैषा भवति कविता कामिनीकौतुकाय” प्रसन्नरा॰।
“कस्मिंश्चिद्वनोद्देशे भासुरकोनामसिंहः प्रतिवसति” पञ्चतन्त्रम्।
“कस्मिन्नु खलु विज्ञाते सर्वंविज्ञातं भवति” मुण्डकश्रुतिः। निन्दितार्थे किंराजाकिङ्गौः इत्यादि।
“किंराजा यो न रक्षति”
“स किं-सस्रा साधु न शास्ति योऽधिपम्” किरा॰ इत्यादि तत्रईषदर्थे न किमप्यस्यास्ति। किञ्चिदपि नास्तीत्यर्थःअतिशये किमप्येष प्रगल्भसे अतिशयितं प्रगल्भसे इत्यर्थःअव्ययस्य प्रश्ने
“किमिदं किन्नरकण्ठि सुप्यते” रघुःतत्र किंशब्दशक्तिबोधादिप्रकारो गदाधरेण शक्तिवादेदर्शितो यथा।
“किंपदस्य जिज्ञासिते शक्तिः एतदेव स्वीयजिज्ञासाज्ञाप-नाय किंपदघटितप्रश्नवाक्यं प्रयु{??}यते। तत्रोद्देश्यवा-चककिंपदस्य समभिव्याहृतपदोपस्थाप्यतावच्छेदकधर्मा-बच्छिन्नविधेयतानिरूपितोद्देश्यतावच्छेदकत्वेन वक्तृजि-ज्ञासितो धर्मः प्रवृत्तिनिमित्तं उपस्थाप्यतावच्छेदकत्वा-न्तमुपलक्षणतयानुगमकं शाब्दबोधे तदभानात्। एवञ्चकः पचतीत्यतः पाककृतित्वावच्छिन्नविधेयतानिरूपितोद्दे-श्यतावच्छेदकत्वेन जिज्ञासितो यो धर्म्मस्तद्वान्पचती-त्याकारोऽन्वयबोधः प्रतिपाद्यते किञ्चिद्धर्मावच्छिन्नोद्दे-श्यतानिरूपितपाककृतित्वाबच्छिन्नबिधेयताशालिज्ञानं भ-बत्वित्याकारिकाया जिज्ञासायास्तादृशबोधविषयकतया[Page2049-a+ 38] तादृशेच्छाविययीभूतज्ञानजनकाद्ब्राह्मणः पचतीत्युत्त-रवाक्यात्तन्निवृत्तिरिति तादृशप्रश्नानन्तरं तथैवोत्तरं प्रयु-ज्यते। न चैवं प्रमेयः पचतीत्युत्तरवाक्यमेव कथं तादृ-शप्रश्नानन्तरं न प्रयुज्यते तज्जन्यज्ञानस्यापि तादृशे-च्छाविषयत्वादिति वाच्यं जिज्ञासाविषयीभूतस्वसम-भिव्याहृतपदोपस्थाप्यविधेयन्यूनवृत्तिधर्म्मावच्छिन्नएव ता-दृशकिंपदस्य शक्त्यभ्युपगमात्। अभेदेन स्वार्थान्वितो-द्देश्यवाचकपदान्तरसमभिव्याहृतकिंपदस्य शक्यता-वच्छेदकगर्भे च स्वार्थाभेदान्वयितावच्छेदकत्वोपलक्षित-धर्मन्यूनवृत्तित्वमपि धर्म्मांशे विशेषणं देयमतः को ब्रा-ह्मणः पचतीत्यादिप्रश्नानन्तरञ्चैत्रः पचतीत्यादिकमु-त्तरवाक्यं प्रयुज्यते नतु मनुष्यः पचतीत्यादिकं मनुष्य-त्वादेर्ब्राह्मणत्वाद्यन्यूनवृत्तित्वात्तदवच्छिन्नोद्देश्यकत्वेन ज्ञा-नविषयेच्छायास्तत्राप्रतीतेः एवं यत्रोद्देश्यतावच्छेदकेकिंपदार्थस्याभेदेनान्वयस्तत्र तदन्वयितावच्छेदकधर्म्माव-च्छिन्नबिशेषणतापन्नतदन्वयितावच्छेदकधर्मन्यूनवृत्तिधर्मा-बच्छिन्नोद्देश्यतावच्छेदकताकप्रकृतज्ञानगोचरेच्छा किंप-देन बोध्यतेऽतः कति घटाः सन्तीत्यादौ डतिप्रत्ययार्थेसंख्यादौ किंपदार्थख जिज्ञासितधर्म्मावच्छिन्नस्याभेदे-नान्वयात् संख्यात्वन्यूनवृत्तिदशत्वत्वाद्यवच्छिन्नोद्देश्यताव-च्छेदकताकबोधजनकं दशसंख्यका घटाः सन्तीत्यु-त्तरं तत्र प्रयुज्यते। यत्रोद्देश्यतावच्छेदकीभूतविभक्त्या-द्यर्थे भेदेन किंपदार्थान्वयः कस्य पुत्रः सुन्दर इत्यादौतत्र यादृशसम्बन्धेन यदवच्छिन्ने यदन्वयस्तत्र तादृश-सम्बन्धेन विशेषधर्म्मावच्छिन्नविशेषिततदवच्छिन्ननिष्ठोद्दे-श्यतावच्छेदकतावच्छेदकताकप्रकृतबिधेयज्ञानगोचरेच्छाप्रतीयते एवं विधेयवाचककिंपदस्य स्वसमभिव्याहृत-पदोपस्थाप्यतावच्छेदकत्वोपलक्षितधर्म्मावच्छिन्नोद्देश्यता-निरूपितविधेयतावच्छेदकतया जिज्ञासितो विशेषधर्म्म-स्तदवच्छिन्ने शक्तिरित्ययं क इत्यादौ इदन्त्वावच्छिन्नांशेबिधेयतावच्छेदकत्वेन जिज्ञासितधर्म्मवानित्याकारकोऽन्वय-बोधः। तेन तद्विषयकजिज्ञासाजनकज्ञानजनकं चायंब्राह्मण इत्याद्युत्तरवाक्यं तादृशप्रश्रानन्तरं प्रयुज्यते। एवं यत्र वेधेये विधेयतावच्छेदके वा किंपदार्थस्यतदवच्छेदकधर्मस्याभेदेन वान्वयः इदं किम् इदं किंधनंभवतः कति पुत्राः भवान् कस्य पुत्र इत्यादौ रीतिःपूर्ववदूहनीया
“किमिन्दुः किं पद्मं किमु मुकुरविम्बंकिमु मुखं किमब्जे किं मीनौ किमु मदनवाणौ[Page2049-b+ 38] किमु दृशौ। कटौ वा गुच्छौ वा कनककलशौ वा किमुकुचौ तडिद्वा तारा वा कनकलतिका वा किमबला” इत्यादावव्ययकिमो वाशब्दस्येव वितर्कोऽर्थः। वितर्कश्चप्रयोक्तुः सम्भावनात्मकं ज्ञानं तदर्थस्य च विशेष्यतास-म्बन्धेन प्रथमान्तपदोपस्थाप्यविशेष्ये प्रकारितासम्बन्धेनतत्र च विशेषणस्य चन्द्रादेरन्वयः नामार्थेनाव्ययार्थस्यभेदान्वयेऽविरोधात्। यत्र विशेषणवाचकमपि प्रथमान्तंतत्राभेदसम्बन्धावच्छिन्नप्रकारितासंसर्गः यत्र तु प्रकृत्यर्थस्यविशेष्यतया स्वार्थबोधकं विभक्त्यन्तं, यत्र किंपदासत्त्वेतादृशविभक्त्यन्तसमुदायार्थस्य विशेष्ये यादृशसम्बन्धे-नान्वयस्तादृशसम्बन्धावच्छिन्नप्रकारितैव तादृशार्थस्यकिंपदार्थे संसर्गोऽतः किमिन्दुरित्यादावभेदेन चन्द्रादि-प्रकारिका घनमिदं किं चैत्रस्येत्यादावाश्रयत्वादिसम्बन्धेनचैत्रस्वत्वादिप्रकारिका सम्भावना नियमतः प्रतीयतेकिमिन्दुरित्यादौ सम्भावनाबोधोत्तर तत्प्रयोजकाह्लाद-कत्वादिप्रतीतिस्त्वार्थी। कुत्सार्थकमपि क्वचित्किंपदंयथा किङ्गौरित्यादौ। ”

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किम्¦ ind. (-किम् or किं)
1. What, how.
2. Either, or; a particle of doubt or interrogation.
3. A particle of contempt. The relative pronoun. mfn. (-कः-का-किं) What, who, which expressing,
1. Doubt.
2. In- terrogation.
3. Disdain.
4. Reproach, (as in English, Who are you, &c.)
5. Kind, sort. E. कै to sound, डिमि Unadi aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किम् ind. (fr. 1. कि, originally nom. and acc. sg. n. of 2. कSee. ) , what? how? whence? wherefore? why?

किम् is much used as a particle of interrogation like the Lat. num , an , sometimes translatable by " whether? " but oftener serving only like a note of interrogation to mark a question( e.g. किं व्याधा वने ऽस्मिन् संचरन्ति, " do hunters roam about in this wood? " In an interrogation the verb , if uncompounded with a preposition , generally retains its accent after किम्Pa1n2. 8-1 , 44 ). To this sense may be referred the किम्expressing inferiority , deficiency , etc. at the beginning of compounds( e.g. किं-राजन्, what sort of king? i.e. a bad king Pa1n2. 2-1 , 64 ; v , 4 , 70 )

किम् also the किम्prefixed to verbs with a similar meaning( e.g. किम्-अधी-ते, he reads badly Pa1n2. 8-1 , 44 Ka1s3. ) किम्-उत, or किम्-उत-वाor किम्-अथवा-उत, whether-or-or R. S3ak. Bhartr2. etc. (See. उत.)

किम् is very frequently connected with other particles , as follows: किम् अङ्ग, wherefore then? RV.

किम् अथ किम्See. अथ

किम् किम् अपि, somewhat , to a considerable extent , rather , much more , still further S3ak. Megh. etc.

किम् किम् इति, why? S3ak. Kum. Pan5cat. etc.

किम् किम्-इव, what for? S3is3. xvi , 31

किम् किम्-उor किम्-उतhow much more? how much less? RV. S3Br. MBh. etc.

किम् किं किल, what a pity! (expressing dissatisfaction) Pa1n2. 3-3 , 146

किम् किं-च, moreover , further Pan5cat. Katha1s. etc.

किम् what more (expressing impatience) S3ak.

किम् किं-चन(originally -च न, negative = " in no way ") , to a certain degree , a little Katha1s.

किम् (with a negation) in no way , not at all MBh. i , 6132

किम् किं-चिद्, somewhat , a little MBh. R. etc.

किम् किं तर्हि, how then? but , however Pa1n2. 2-2 , 4 Pat. 4-1 , 163 , Kas3.

किम् किं-तु, but , however , nevertheless (bearing the same relation to तुthat किं-चbears to च) MBh. R. etc.

किम् किं-नु, whether indeed? (a stronger interrogative than किम्alone) MBh. R. etc.

किम् how much more? how much less? Bhag. i , 35

किम् किं नु खलु, how possibly? (a still stronger interrogative) S3ak.

किम् किम् पुनर्, how much more? how much less? R. Bhag. ix , 33 etc.

किम् however Ba1lar.

किम् but ib.

किम् किं वा, whether? or whether? S3ak. Pan5cat. etc.

किम् or (often a mere particle of interrogation)

किम् किं स्विद्, why? Katha1s. xxvi , 75

किम् a stronger interrogative than किम्alone RV. MBh. Katha1s.

किम् (in comp. )

"https://sa.wiktionary.org/w/index.php?title=किम्&oldid=507708" इत्यस्माद् प्रतिप्राप्तम्