किम्पुरुषः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किम्पुरुषः, पुं, (कुत्सितः पुरुषः ।) किन्नरः । इत्य- मरः । १ । १ । ७४ । (यथा, कुमारे ३ । ३८ । “पुष्पासवाघूर्णितनेत्रशोभि प्रियासुखं किम्पुरुषश्चुचुम्बे” ॥) लोकभेदः । इति मेदिनी ॥ (अग्निध्रस्य नवपुत्त्रा- णामेकः । यथा, विष्णुपुराणे २ । १ । १६, १९ । “जम्बुद्वीपेश्वरो यस्तु आग्नीध्रो मुनिसत्तम ! । तस्य पुत्त्रा बभूवुस्ते प्रजापतिसमा नव ॥ नाभिः किम्पुरुषश्चैव हरिवर्ष इलावृतः” ॥ “हेमकूटं तथा वर्षं ददौ किम्पुरुषाय सः” ॥ किंपुरुष इति संज्ञा यस्य वर्षस्य ।) जम्बूद्वीपस्य नव- खण्डान्तर्गतं हिमाचलहेमकूटयोर्म्मध्यवर्त्ति वर्षम् । इति श्रीभागवतम् ॥ कुत्सितपुरुषः । इति ब्युत्प- त्तिलब्धोऽर्थः ॥
