सामग्री पर जाएँ

किराततिक्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

किराततिक्तः, पुं, (किरातः भूनिम्बस्तद्वत् तिक्तः ।) वृक्षविशेषः । चिराता इति भाषा । तत्पर्य्यायः । भूनिम्बः २ अनार्य्यतिक्तः ३ । इत्यमरः । २ । ४ । १४३ ॥ कैरातम् ४ काण्डतिक्तकः ५ । इति रत्न- माला ॥ किरातकः ६ इति जटाधरः ॥ चिरतिक्तः ७ चिरातिक्तः ८ तिक्तकः ९ सुतिक्तकः १० । इति शब्दरत्नावली ॥ कटुतिक्तः ११ रामसेनकः १२ ॥ अस्य गुणाः । वायुवृद्धिकारित्वम् । रूक्षत्वम् । कफपित्तज्वरनाशित्वञ्च । इति राजवल्लभः ॥ “किरातकोऽन्यो नैपालः सार्द्धतिक्तो ज्ज्वरान्तकः । किरातः सारको रूक्षः शीतलस्तिक्तको लघुः ॥ सन्निपातज्वरश्वासकफपित्तास्रदाहनुत् । काशशोषतृषाकुष्ठञ्वरव्रणकृमिप्रणुत्” ॥ इति भावप्रकाशः ॥ राजनिर्घण्टोक्तगुणपर्य्यायौ भूनिम्बशब्दे द्रष्टव्यौ ॥ (“किराततिक्तममृतां द्राक्षामामलकीं शठी । निष्क्वाथ्य पित्तानिलजे क्वाथन्तं सगुडं पिबेत् ॥ इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥)

"https://sa.wiktionary.org/w/index.php?title=किराततिक्तः&oldid=126907" इत्यस्माद् प्रतिप्राप्तम्