सामग्री पर जाएँ

किराताशिन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

किराताशी, [न्] पुं, (किरातान् निषादान् अ- श्नातीति । अश भोजने + णिनिः ।) गरुडः । इति शब्दरत्नावली ॥ (अस्य विवरणं यथा महा- भारते १ । २८ अध्याये । “इत्त्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् । गच्छाम्यमृतमाहर्त्तुं भक्ष्यमिच्छामि वेदितुम् ॥ विनतोवाच । समुद्रकुक्ष्यावेकान्ते निषादालयमुत्तमम् । निषादानां सहस्नाणि तान् भुक्त्वाऽमृतमानय । नच ते ब्राह्मणं हन्तुं कार्य्या बुद्धिः कथञ्चन” ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

किराताशिन्¦ पु किरातानश्नाति अश--णिनि

६ त॰। गरुडेशब्दर॰ तस्य किराताशनकथा भा॰ आ॰

२८ अ॰ यथा
“इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्। गच्छाम्यमृ-तमाहर्त्तुं भक्ष्यमिच्छामि वेदितुम्। विनतोवाच। स-मुद्रकुक्षावेकान्ते निषादालयमुत्तमम्। निषादानां सहस्रा-णि तान् भुक्त्वाऽमृतमानय। न च ते ब्राह्मणं हन्तुंकार्य्या वुद्धिः कथञ्चन। अबध्यः सर्व्वभूतानां ब्राह्मणोह्यनलोपमः। अग्निरर्को विषं शस्त्रं विप्रो भवति को-पितः। गुरुर्हि सर्व्वभूतानां ब्राह्मणः परिकीर्त्तितः। एवमादिभीरूपैस्तु सतां वै ब्राह्मणो मतः। स ते तात!न हन्तव्यः संक्रुद्धेनापि सर्व्वथा। ब्राह्मणानामभिद्रोहोन कर्त्तव्यः कथञ्चन। न ह्येवमग्निर्नादित्यो भस्मकुर्य्यात्तथानघ!। यथा कुर्य्यादभिक्रुद्धो ब्राह्मणः संशित-व्रतः। तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम्। भूतानामग्रभूर्ब्बिप्रो वर्ण्णश्रेष्ठः पिता गुरुः। गरुडउवाच। किंरूपो ब्राह्मणो मातः किंशीलः किंपरा-क्रमः। किंस्विदग्निनिभो भाति किंस्वित् सौम्यप्रदर्शनः। यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः। तन्मे का-रणतो मातः! पृच्छतो वक्तुमर्हसि। विनतोवाच। यस्तेकण्ठमनुप्राप्तो निगीर्णं वडिशं यथा। दहेदङ्गारवत् पुत्र!तं विद्याब्राह्मणर्षभम्। विप्रस्त्वया न हन्तव्यः संक्रुद्धे-नापि सर्व्वदा। प्रोवाच चैनं विनता पुत्रहार्द्दादिदंवचः। जठरे न च जीर्य्येद्यस्तं जानीहि द्विजोत्तमम्। पुनः प्रोवाच विनता पुत्रहार्द्दादिदं वचः। जानात्यप्यतुलंवीर्य्यमाशीर्ब्बादपरायणा। प्रीता परमदुःखार्त्ता नागै-र्व्विप्रकृता सती”।
“सौतिरुवाच। ततः स मातु-[Page2053-b+ 38] र्ब्बचनं निशम्य वितत्य पक्षौ नभ उत्पपात। ततोनिषादान् बलवानुपागतो वुभुक्षितः काल इवान्त-कोऽपरः। स तान्निषादानुपसंहरंस्तदा रजः समुद्धूयनभः स्पृशन्महत्। समुद्रकुक्षौ च विशोषयन् पयः स-मीपजान् भूधरजान् विचालयन्। ततः स चक्रे मह-दाननं तदा निषादमार्गं प्रतिरुध्य पक्षिराट्। ततो नि-षादास्त्वरिताः प्रवव्रजुर्यतो मुखं तस्य भुजङ्गभोजिनः। तदाननं विवृतमतिप्रमाणवत् समभ्ययुर्गगनमिवार्द्दिताःखगाः। सहस्रशः पवनरजोविमोहिता यथाऽनिलः प्र-चलितपादपे वने। ततः खगो वदनममित्रतापनः समा-हरत् परिचपलो महाबलः। निसूदयन् बहुविधमत्स्य-जीविनो बुभुक्षितो गगनचरेश्वरस्तदा”।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

किराताशिन्¦ m. (-शी) A name of GURUDA the bird of VISHNU. E. किरात a pigmy, and अशिन् who eats.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

किराताशिन्/ किराता m. " swallowing the किरातs " , N. of विष्णु's bird गरुडL.

"https://sa.wiktionary.org/w/index.php?title=किराताशिन्&oldid=277544" इत्यस्माद् प्रतिप्राप्तम्