सामग्री पर जाएँ

किराताशी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

किराताशी, [न्] पुं, (किरातान् निषादान् अ- श्नातीति । अश भोजने + णिनिः ।) गरुडः । इति शब्दरत्नावली ॥ (अस्य विवरणं यथा महा- भारते १ । २८ अध्याये । “इत्त्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् । गच्छाम्यमृतमाहर्त्तुं भक्ष्यमिच्छामि वेदितुम् ॥ विनतोवाच । समुद्रकुक्ष्यावेकान्ते निषादालयमुत्तमम् । निषादानां सहस्नाणि तान् भुक्त्वाऽमृतमानय । नच ते ब्राह्मणं हन्तुं कार्य्या बुद्धिः कथञ्चन” ॥)

"https://sa.wiktionary.org/w/index.php?title=किराताशी&oldid=496268" इत्यस्माद् प्रतिप्राप्तम्