सामग्री पर जाएँ

किलकिञ्चित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

किलकिञ्चितम्, क्ली, (किल अलीकेन किं ईषत् चितं रचितम् ।) हावः । शृङ्गारभावजा क्रिया । इति जटाधरः ॥ तस्य लक्षणम् । यथा, अलङ्कारकौस्तुभे । “गर्व्वाऽभिलासरुदितस्मितासूयाभयक्रुधाम् । सङ्करीकरणं यत् स्यादुच्यते किलकिञ्चितम्” ॥ (तथा च साहित्यदर्पणे ३ । १०९ । “स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् । साङ्कर्य्यं किलकिञ्चितमभाष्टतमसङ्गमादिजाद्धर्षात्” ॥ उदाहरणं तत्रैव यथा, -- “पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः । कामिनः स्म कुरुते करभोरु हारिशुष्करुदितञ्च सुखेऽपि” ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

किलकिञ्चित¦ न॰ किल अलीकेन ईषत् चितं रचितम्।
“स्मितशुष्करुदितहसितत्रासक्रोधश्रमादोनाम्। साङ्कर्य्यंकिलकिञ्चितमभीष्टतमसङ्गमादिजाद्धर्षात्” सा॰ दर्पणोक्तेस्त्रीणां भावभेदे यथा
“पाणिरोधमविरोधितवाञ्छंभर्त्सनाश्च मधुरस्मितगर्भाः। कामिनश्च कृरुते कर-भोरुर्हारि शुष्करुदितञ्च सुखेऽपि” माघः
“त्वयि वीर!पिराजते परं दमयन्तीकिलकिञ्चितं किल” नैष॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

किलकिञ्चित¦ n. (-तं) Armorous agitation, weeping, laughing, being angry, being pleased, &c. in the society of a lover. E. किल play, sport, किं what, some, and चित collected.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

किलकिञ्चित/ किल--किञ्चित n. amorous agitation (such as weeping , laughing , being angry , merry , etc. in the society of a lover) Sa1h. Das3ar. ii , 30 and 37.

"https://sa.wiktionary.org/w/index.php?title=किलकिञ्चित&oldid=496281" इत्यस्माद् प्रतिप्राप्तम्