किलाट

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किलाटः, पुं, क्षीरविकृतिः । इति जटाधरः ॥ दधि- कूर्च्चिकातक्रकूर्च्चिकयोः पिण्डः । अस्य गुणाः । शीतत्वम् । स्निग्धत्वम् । गुरुत्वम् । गौल्यत्वम् । वृष्यत्वम् । पित्तापहत्वञ्च । इति राजनिर्घण्टः ॥ (“नष्टदुग्धस्य पक्वस्य पिण्डः प्रोक्तः किलाटकः” ॥ इति भावप्रकाशः । तथा चरके सूत्रस्थाने । २७ अध्याये ॥ “पीयूषो मोरटञ्चैव किलाटा विविधाश्च ये । दीप्ताग्नीनामनिद्राणां सर्व्व एते सुखप्रदाः ॥ गुरवस्तर्पणा वृष्या वृंहणाः पवनापहाः” ॥ अस्योत्पत्तिविवरणं यथा भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ किलाटकः गिजिरी इति लोके । “अपक्वमेव यन्नष्ठं क्षीरशाकं हि तत्पयः” । क्षीरशाकं तुषिभरा इति लोके । “दध्ना तक्रेण वा नष्टं दुग्धं बद्धं सुवाससा । द्रवभावेन सहितं तक्रपिण्डः स उच्यते ॥ नष्टदुग्धं भवन्नीरं मोरटञ्जेञ्जटोऽब्रवीत् । पेयूषञ्च किलाटश्च क्षीरशाकं तथैव च ॥ तक्रपिण्ड इमे वृष्या वृंहणा बलवर्द्धनाः । गुरवः श्लेष्मला हृद्या वातपित्तविनाशनाः ॥ दीप्ताग्नीनां विनिद्राणां विद्रधौ चाभिपूजिताः । मुखशोषतृषादाहरक्तपित्तज्वरप्रणुत्” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किलाट¦ पु॰
“नष्टदुग्धस्य पक्वस्य षिण्डं प्रोक्तः किलाटकः” इति भावप्र॰ परिभाषिते विश्रथितदुग्धस्य पाकेन घनोभूतेपिण्डाकारे पदार्थे। तद्गुणाद्युक्तं तत्रैव यथा
“पेयूषञ्च किलाटश्च क्षीरशाकं तथैव च। तक्रपिण्ड इमे-वृष्या वृंहणा बलवर्द्धनाः। गुरवः श्लेष्मला हृद्या वा-तपित्तविनाशनाः। दीप्ताग्नौ च विनिद्राणां विद्रधौ चा-तिपूजिताम्। गुरुः किलाटोऽनिलहा पुंस्त्वनिद्राप्रदःस्मृतः”। ततः स्वार्थे क। किलाटक तत्रार्थे। कूर्चिकायांक्षीरविकारभेदे स्त्री हेमच॰ गौरा॰ ङीष्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किलाट¦ mf. (-टः-टी) Inspissated milk, curds or coagulated milk; it may be applied to cheese.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किलाटः [kilāṭḥ], Coagulated milk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


किलाट m. inspissated milk Hariv. ( v.l. किलाद) Sus3r. Bhpr.

"https://sa.wiktionary.org/w/index.php?title=किलाट&oldid=496285" इत्यस्माद् प्रतिप्राप्तम्