किलाटः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किलाटः, पुं, क्षीरविकृतिः । इति जटाधरः ॥ दधि- कूर्च्चिकातक्रकूर्च्चिकयोः पिण्डः । अस्य गुणाः । शीतत्वम् । स्निग्धत्वम् । गुरुत्वम् । गौल्यत्वम् । वृष्यत्वम् । पित्तापहत्वञ्च । इति राजनिर्घण्टः ॥ (“नष्टदुग्धस्य पक्वस्य पिण्डः प्रोक्तः किलाटकः” ॥ इति भावप्रकाशः । तथा चरके सूत्रस्थाने । २७ अध्याये ॥ “पीयूषो मोरटञ्चैव किलाटा विविधाश्च ये । दीप्ताग्नीनामनिद्राणां सर्व्व एते सुखप्रदाः ॥ गुरवस्तर्पणा वृष्या वृंहणाः पवनापहाः” ॥ अस्योत्पत्तिविवरणं यथा भावप्रकाशस्य पूर्ब्बखण्डे द्वितीये भागे ॥ किलाटकः गिजिरी इति लोके । “अपक्वमेव यन्नष्ठं क्षीरशाकं हि तत्पयः” । क्षीरशाकं तुषिभरा इति लोके । “दध्ना तक्रेण वा नष्टं दुग्धं बद्धं सुवाससा । द्रवभावेन सहितं तक्रपिण्डः स उच्यते ॥ नष्टदुग्धं भवन्नीरं मोरटञ्जेञ्जटोऽब्रवीत् । पेयूषञ्च किलाटश्च क्षीरशाकं तथैव च ॥ तक्रपिण्ड इमे वृष्या वृंहणा बलवर्द्धनाः । गुरवः श्लेष्मला हृद्या वातपित्तविनाशनाः ॥ दीप्ताग्नीनां विनिद्राणां विद्रधौ चाभिपूजिताः । मुखशोषतृषादाहरक्तपित्तज्वरप्रणुत्” ।)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किलाटः [kilāṭḥ], Coagulated milk.
