किलासम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
किलासम्, क्ली, (किलं वर्णं अस्यति क्षिपति विकृतिं करोति इति यावत् । किल + अस + “कर्म्म- ण्यण्” । ३ । २ । १ । इति अण् ।) रोगविशेषः । छुली इति भाषा । तत्पर्य्यायः । सिध्मा २ । इत्यमरः । २ । ६ । ५३ ॥ सिध्मम् ३ । इति भरतः ॥ त्वक्पुष्पम् ४ त्वक्पुष्पी ५ । इति हेमचन्द्रः ॥ (“कुष्ठैकसम्भवं श्वित्रं किलासं दारुणञ्च तत् । निर्द्दिष्टमपरिस्रावि त्रिधातूद्भवसंश्रयम् ॥ वाताद्रुक्षारुणं पित्तात्ताम्रं कमलपत्रवत् । सदाहं रोमविध्वंसि ककाच्छ्वेतं घनं गुरु ॥ सकण्डु च क्रमाद्रक्तमांसमेदः सुचादिशेत् । वर्णेनैवेदृगुभयं कृच्छ्रं तच्चोत्तरोत्तरम् ॥ अशुक्लरोमाबहुलमसंसृष्टं मिथो नवम् । अनग्निदग्धजं साध्यं श्वित्रं वर्ज्यमतोऽन्यथा” ॥ इति वामटे निदानस्थाने १४ अध्याये ॥ अस्यौषधं यथा ॥ “कुष्ठं तमालपत्रं मरिचं समनःशिलं सकाशीशम् । तैलेन युक्तमुचितं सप्ताहं भाजने ताम्रे ॥ तेनालिप्तं सिध्मं सप्ताहाद्व्येति तिष्ठतो घर्म्मे । मासान्नवं किलासं स्नानं मुक्त्वा विशुद्धतनोः” ॥ इति सिध्मलेपः ॥ * ॥ “किलासहन्ता मूलान्यावल्गुजानि लाक्षा च । गोपित्तमञ्जने द्वे पिप्पल्यः काललोहरजः” ॥ इति श्वित्रे प्रलेपः ॥ “दारुणं वारुणं श्वित्रं किलासं नामभिस्त्रिभिः । विज्ञेयं त्रिविधं तच्च त्रिदोषं प्रायशश्च तत् ॥ दोषे रक्ताश्रिते रक्तं ताम्रं माससमाश्रिते । श्वेतं मेदः श्रिते श्वित्रं गुरुता चोत्तरोत्तरम्” ॥ असाध्यलक्षणमस्य यथा, -- “यत्परस्परतो भिन्नं बहु यद्रक्तलोमवत् । यच्च वर्षगणोत्पन्नं तच्छ्वित्रं नैव सिध्यति” ॥ अस्य निदानं यथा, -- “वचांस्यतथ्यानि कृतघ्नभावो निन्दा भुराणां गुरुधर्षणञ्च । पापक्रिया पूर्ब्बकृतञ्च कर्म्म हेतुः किलासस्य विरोधिचान्नम्” ॥ इति चरके चिकित्सास्थाने ६ अध्याये ॥)
